Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नामाऽहं तव पितामहोऽस्मि । अहं राज्यं त्यक्त्वा दीक्षामग्रहीषम् । तत्प्रभावेण लान्तकाधिपो जातोऽस्मि । त्वयाऽपि प्रमादिना न भवितव्य"मित्येवमुक्त्वा स सुरस्तिरोहितोऽभवत् । तस्मात् पितामहवाक्यं स्मरन् परलोकं मन्यस्व । नहि प्रत्यक्षे प्रमाणान्तरावश्यकता भवति । ततो राजोवाच-त्वया पैतामहं वचः साधु स्मारितोऽस्मि । अहं धर्माधर्महेतुकं परलोकं मन्ये" ।
ततोऽवसरं प्राप्य स्वयम्बुद्धः पुनरब्रवीत्-नृप ! पुरा तव वंशे कुरुचन्द्रो नृपो बभूव । तस्य भार्या कुरुमती, पुत्रश्च हरिचन्द्रः। स करुचन्द्रः शाक्तो दुराचारोऽपि पूर्वोपाजितपण्या फलरूपेण राज्यं चिरं बुभुजे । तस्य मरणसमये धातुविपर्ययो जातः । तेन तस्य तूलशय्या कण्टकशय्येवाऽभात् । भोज्यानि निम्बवद विरसान्यभवन् । पुण्यनाशात् तस्य सर्वमेव सुखकरं दुःखकरं जातम् । रौद्रध्यानपरश्च स मृतः । ततस्तत्पुत्रो हरिचन्द्रो नीत्या राज्यं शशास । धर्मबुद्धिः स नपो बालमित्रं सुबुद्धिमेकदोवाच-"धर्मतत्त्वज्ञेभ्यः प्रत्यहं धर्मं श्रुत्वा मां कथये"रिति । सुबुद्धिरपि तत्परो भूत्वा तथा चकार । हरिचन्द्रोऽपि रोगभीतो भेषजमिव पापभीतः सन् प्रत्यहं तत्कथितं धर्मं श्रद्दधौ ।
एकदा बहिरुद्याने शीलन्धरमुनेः केवलज्ञाने समुत्पन्ने तमर्चितुं देवा: समीयुः । सुबुद्धिना तत् कथिते सति श्रद्धाशीलः स राजा तं मुनिमुपाजगाम नमस्कृत्य च नृपे समुपविष्टे सति शीलन्धरमुनिर्धर्मदेशनां ददौ । देशनान्ते च नृपो बद्धाञ्जलिस्तं मुनि पप्रच्छ"मम पिता मृत्वा कां गति प्राप्तवान् ?" ततो मुनिरुवाच-"तव पिता सप्तमं नरकं प्राप । तादृशानामन्यत्र स्थानं नाऽस्ति" | तदाकर्ण्य संविग्नः स महीपतिर्मुनि वन्दित्वोत्थाय निजावासं ययौ । सूनवे राज्यं दत्त्वा सुबुद्धिमकथयत्-"अहं प्रव्रजिष्यामि, त्वया मयीवाऽस्मिन्नपि व्यवहर्त्तव्यम्" । स उक्तवान्-"अहमपि प्रव्रजिष्यामि, त्वत्सुताय मत्सुतो धर्मं वक्ष्यति" । ततस्तौ राजमन्त्रिणौ कर्मभेदकं व्रतं जगृहतुः । चिरं च तत् पालयित्वा शिवं प्रापतुः ।
प्रथमं पर्व - प्रथमः सर्गः
स्वयम्बुद्धः पुनरुवाच-"नृप ! युष्मद्वंशेऽपरोऽपि दण्डको नाम पाथिवो बभूव । तत्पुत्रश्च मणिमालीति विश्रुतो बभूव । तस्य नृपस्य पुत्रादिष्वत्यन्तं ममताऽऽसीत् । कालक्रमाद् दण्डको रौद्रध्यानपरः पञ्चत्वं प्राप । स्वभाण्डागारेऽजगरश्च जातः । तत्र भाण्डागारे यो यः प्रविष्टवान्, तं तं सर्वभक्षी हुताशन इव स ग्रस्तवान् । एकदा सोऽजगरो भाण्डागारे प्रविष्टं मणिमालिनं दृष्ट्वा प्राग्जन्मस्मरणादुपलक्ष्य च सस्नेहां प्रशान्तां स्वां मूर्तिमदर्शयत् । तेन मणिमाली 'अयं मम प्राग्जन्मबन्धुः कोऽपी'ति ज्ञातवान् । ततश्च ज्ञानिमुनिसकाशात् 'सोऽजगरो मम पिते'ति ज्ञात्वा तस्य पुर उपविश्य जैन धर्म कथयामास । तदवबुद्ध्य सोऽजगरो वैराग्यं प्रतिपद्य शुभध्यानपरो मृत्वा देवत्वं प्राप । स देवः पुत्रप्रेम्णा स्वर्गादागत्य मणिमालिने दिव्यमुक्ताहारं ददौ । स हारोऽद्याऽपि त्वद्धदि विद्यते" ।
भवान् हरिचन्द्रवंशे जातोऽस्ति, अहं च सुबुद्धवंशे जातोऽस्मि । एवं परम्परागताप्तभावतो भवन्तं धर्मे प्रवर्त्तयामि । अद्य यदनवसर एवाऽचकथं, तत्र कारणं शृणु-"अहमद्य नन्दने वने चारणमुनी अद्राक्षम् । तौ च मया भवदायुषः प्रमाणं पृष्टी, ताभ्यां 'मासत्रयमायुरस्ती'ति ज्ञात्वा भवन्तं धर्मप्रवृत्तये त्वरयामि" ।
तच्छ्रुत्वा महाबल उक्तवान्-"स्वयम्बुद्ध ! त्वं मम बन्धुरसि, यतो मदर्थं प्रयतसे । तस्मात् किं करोमि, तदुपदिश । आयुरत्यल्पमेव वर्त्तते । अधुना मया कथं धर्म उपार्जनीयः ? अग्नौ गृहे लग्ने कूपखननं कीदृशम्?" स्वयम्बुद्ध उवाच-"नृप! मा विषीद । दृढो भव। परलोकैकमित्रं यतिधर्मं गृहाण ! एकदिवसमपि परिव्रज्यां गृहीतो जीवो मोक्षमपि प्राप्नुयात्, स्वर्गस्य का कथा ?" तत् स्वीकृत्य महाबलो राज्ये सुतं स्थापयामास । दीना-ऽनाथजनेभ्यो दयादानमदत्त सः । चैत्येष्वष्टाह्निकोत्सवमकार्षीत् । तथा स्वजनपरिजनान् क्षमयित्वा

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89