Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 19
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहाः पञ्चाऽणुव्रतानि । दिग्विरतिभॊगोपभोगविरतिरनर्थदण्डविरतिश्चेति त्रयो गुणाः । सामायिक-देशावकाशिकपौषधा-ऽतिथिसंविभागाश्चत्वारि शिक्षाव्रतानि । सैषा देशविरति: शुश्रूषादिगुणवतां यतिधर्मानुरक्तानां शम-संवेग-निर्वेदा-ऽनुकम्पाऽऽस्तिक्यरूपसम्यक्त्ववतां मिथ्यात्वरहितानामनुबन्धक्रोधोदयरहितानां च गृहमेधिनां चारित्रमोहनीयकर्मघातेनोत्पद्यते । सर्वविरतिश्च स्थूलानां सूक्ष्माणां च हिंसादीनां वर्जनम् । सा च प्रकृत्याऽल्पकषायाणां विषयसुखविमुखानां विनयादिगुणयुक्तानां च जायते। कर्मणां तापनं तपः । तदनशनादिरूपं बाह्यं, प्रायश्चित्तादिरूपं चाऽऽभ्यन्तरमिति द्विविधम् । तत्र अनशनमूनोदरता वृत्तिसक्षेपो रसत्यागस्तनुक्लेशो लीनता च बाह्यं तपः । प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनय: कायोत्सर्गः शुभध्यानं चाऽऽभ्यन्तरं तपः । रत्नत्रयधरेष्वेव भक्तिः शुभैकचिन्ता संसारजुगुप्सा च भावना कथ्यते । तदयं निःसीमफलदायकश्चतुर्विधो धर्मः संसारभीरुभिः सावधानं सेवनीयः इति । ___ धन ऊचे-"चिरादयं धर्मः श्रुतवानस्मि, एतावन्ति दिनानि स्वकर्मभिर्वञ्चित एवाऽस्मि"। ततो गुरुचरणकमलयुगलं मुनींश्चाऽपि वन्दित्वा निजावासं ययौ । तया देशनयाऽऽनन्दितश्च क्षणमात्रवद् रात्रि क्षपयामास । अथ सुप्तोत्थितस्य तस्य मङ्गलपाठकः शङ्खध्वनिमनोहरः पपाठ-"गाढान्धकारा कमलशोभापहारिणी रात्रिः प्रावृडिव व्यतीता। अधुनाऽयं प्रात:काल: शरदृतुरिव नृणां व्यवसायेषु प्रवर्तक: सूर्यकिरणप्रकाशितो जृम्भते । तत्त्वबोधेन मुनीनां मनांसीव शरदा नदीनां तडागानां च जलानि निर्मलतां प्रापुः । सूर्यकिरणैः शुष्कपङ्काः पन्थानो भृशं सुगमा जाताः । नद्यस्तट्योर्मध्ये वहन्ति । मार्गाः प्रथमं पर्व - प्रथमः सर्गः पक्वश्यामाकादिभिः पान्थानामातिथ्यमिव कुर्वन्ति । असौ शरत् पवनान्दोल्यमानेावणशब्दैः पान्थानां प्रयाणोचितं कालं शंसतीव । गर्जन्तः पृथिवीं प्लावयन्तश्च मार्गेषु जलप्रवाहा वर्षलॊर्जलधरा इव नेशुः । शरदृतोरिदा: सूर्यकिरणतप्तानां पान्थानामातपत्रीभवन्ति । सार्थवृषभाः सुखयात्राकृतेऽवनेवैषम्यं दूरीकर्तुमिव शृङ्गैः स्थलीभिन्दन्ति । इह शरदि पदे पदे फलनम्राभिलताभिः स्वच्छस्तोयैश्च मार्गाः पान्थानां कृतेऽयत्नपाथेया जाताः । राजहंसा इवोत्साहवन्तो व्यवसायिनो देशान्तराणि गन्तुं त्वरन्ते"। तच्छ्रुत्वा धनोऽपि 'प्रयाणसमयं निवेदयती'ति विज्ञाय प्रस्थानवाद्यमवादयत् । ततो वाद्यशब्दात् सार्थोऽपि गोपशृङ्गनादाद् गोवृन्दमिव चचाल । मरीचिभिः सूर्य इव भव्यकमलप्रबोधनिपुणैः साधुभिः परिवारितः सूरिरप्यचलत् । धनः स्वयं सार्थस्य रक्षार्थ सर्वत आरक्षकान् नियुज्य प्रतस्थे । ततः सार्थे महाटवीं लङ्घिते सति सूरय: सार्थेशं धनमनुज्ञाप्याऽन्यतो विजहुः । ततो धनोऽपि पथि निर्विघ्नं चलन् नदीप्रवाह: पाथोधिमिव वसन्तपुरं प्राप्तवान् । तत्र च धनो धीमतामाशुकारित्वादल्पेनैव कालेन भाण्डानि विक्रीय प्रतिभाण्डानि चाऽऽदाय क्षितिप्रतिष्ठं नगरं पुनरप्यागतः । कियता च कालेन पूर्णायुः सन् कालधर्म प्राप्तवान् स एकान्तसुषमेषूत्तरकुरुषु सीतानद्या उत्तरतटे जम्बूवृक्षस्य पूर्वतो मुनिदानप्रभावतो युगलिक रूपेणोत्पेदे । तत्रोत्तरकुरुषु माश्चतुर्थे दिवसे भोज्येच्छवः, षट्पञ्चाशशतद्वयसङ्ख्यकरण्डका, युग्मरूपास्त्रिगव्यूतोच्छ्याः , पल्यत्रयायुषश्चरमावस्थाप्रसवाः, स्वल्पकषाया, ममत्वरहिता, एकोनपञ्चाशदिवसम

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89