Book Title: Swopagnyashabda maharnavnyas Bruhannyasa Part 3 2 3
Author(s): Hemchandracharya, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 153
________________ [ पाद-२, सूत्र - १५५ ] धुरिति--शकस्य राजविशेषस्यापत्यं शकः शकशब्दादपत्यार्थे विहितस्य द्विस्वरनिमित्तस्याणो द्रिसंज्ञकस्य “शकादिभ्यो ब्रेल” [ ६. १. १२० ] इति लुप् शक इति, तस्थान्धुः कूपः-शकन्धुः । अन्ये तु शकानां राजविशेषाणां 5 निवासो जनपद: -- शकाः तेषामन्धुरिति देशविशेषपरत्वेन शकशब्दस्यात्र स्थितिमाहुः । अत्र निपात्यमाह - पूर्वपदा तस्योत्तरपदादेर्वा लोपः इति - पूर्वपदं शक शब्दस्तस्यान्ते स्थितस्याकारस्य, अन्धुशब्द उत्तरपदं तदादी स्थितस्य वाSकारस्य लोप इत्यर्थः, उभयोरकारयोः सत्त्वे हि समानदीर्घः 10 स्यादित्येकस्य लोप आवश्यक इति विनिगमनाविरहादुभ श्रीसिद्धहेमचन्द्र शब्दानुसाशने तृतीयोऽध्यायः । योरपि पाक्षिको लोपोऽवगन्तव्य इत्यर्थः । उक्तं कार्यमन्य त्राप्यतिदिशति---एवं-कर्क-धुरिति यथा शकन्धुरित्यत्र विग्रहादिकमुक्तं तथा कर्कन्धुरित्यत्रापि विज्ञेयमित्यर्थः, तत्र कर्कशब्दो राजविशेषपर इति परे, स्वमते च किमपि विशिष्य is नोक्तमिति राजविशेषपरत्वेऽपि देशविशेषपरत्वेऽपि वा न क्षतिः, केवलं रूढया देशविशेषपरत्वे बहुवचनान्तत्वमेव युक्तं, कर्काणां राजविशेषाणां निवासो जनपद इति विग्रहे कर्का इत्यस्यैव युक्तत्वात् राजविशेषपरत्वे च कर्कस्यान्धुरित्येकवचनान्तेन कर्काणामन्धुरिति बहुवचनान्तेन च विग्रहे कामचारः । कुलटाशब्दं व्युत्पादयितुमाह--अटतीत्यच्अटा इति-अद्धातोर्गत्यर्थादचि कृते स्त्रियामटेति रूपम् । कुलानामटेति-- कर्मणि षष्ठी, बहुकुलकर्मकगमनशीलेति तदर्थः, अत्र षष्ठीसमासे पूर्वपदान्तस्य उत्तरपदादेर्वाऽकारस्य लोप:, अस्याश्च प्रक्रियायाः शकन्धुशब्देऽभिहितत्वान्न 25 पुनरुक्तिः, यदि च कुलान्यटतीति सहैव विग्रहः करिष्यते तर्हि ‘कुलाटी' इति स्यात्, कर्मोपदत्त्वादणापत्तेः, अत एव अटेति पृथगेव संसाधितम् । अवटशब्दं साधयति--अवअवागत अत्र वृत्ती- 'अव्' इति व्यञ्जनान्तः पाठः समुपलब्धः, स च नोचितः, अवेति स्वरान्तस्यैवोपसर्गस्य धातुना 30 सम्प्रयोगात्, तदर्थस्यैवावाक्शब्देनोच्यमानत्वात् अवाक्श ब्दस्यैव वा अवादेशो वृत्तौ तथा सति तस्य [ अवशब्दस्य ] विग्रहवाक्ये प्रयोगानौचित्यमेव । अदन्त्यस्मिन्निति बाहुलकादिति-अद्धातोः केवलस्य घान्तस्य पुंनाम्नि प्रयोगा• भावः, सोपपदाच्च' घप्रत्ययविधानाभाव इति बाहुलकाश्रयणे 35 नंव घप्रत्ययसंभव इति भाव:, अत्रावागित्यर्थे अव इति-प्रादिपठितस्य पूर्वपदस्य अन्ते योऽकारस्तस्य 'अट:' इत्य . स्यादिर्वा योऽकारस्तस्य वा लोपः । अवटो गर्तः । अभि 20 १४७ " दिव्यवि० धानचिन्तामणिवृत्तौ तु ---अवत्यस्मादवटः, [ उपा० १४२ ] इत्यटः । न वटतीति वा अवाक् अटति अस्मिन् बाहुलकात् "पुंनाग्नि०" [ ५.३.१३० ] इति 40 घे पृषोदरादित्वात् साधुरिति । सिंहशब्द व्युत्पादयति-हिनस्तीति सिंह इति । हिस्धातोरचि सति गणकार्य माहअत्र हकारसकारयोर्विपर्ययः इति-- आदिभूतो हकारः सकारत्वेन विपरीतः, अन्त्यसकारश्च हकारत्वेनेति । अत्र यद्यपि उत्तरपदाधिकारस्थं सूत्रमिदमिति सम्भावितोत्तर- 45 पदके समासे एवास्य प्रवृत्तिरुचितेत्येकपदकमिदमुदाहरणं नोचितमिति प्रतिभाति, तथापि गणपाठसामर्थ्यात् क्वचिदसमासेऽपि प्रवृत्तिरिति स्वीकार्यमिति न दोषः । अथवोणातगणपाठेनापि सिद्धिः सम्भवतीति सम्भवप्रदर्शनार्थमेवेदम् । 50 दिवेन बाहुलकादपि सिंहादिशब्दानां सिद्धौ सत्यामपि प्रकृयद्यपि - "भवेद् वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वनाशात् पृषोदरम् ॥ इति प्राचां कारिकारीत्या हंससिंहादिशब्दानामपि प्रकृतगणे पाठादेव सिद्धिरित्यायाति तथापि तत्र हंस-सिंह- 55 शब्दयोर्दृष्टान्तत्वेनैवोपन्यास इति तद्वयाख्यातार इति सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिनीकृत्, तस्थायमाशय:प्रकृतसूत्रे गणे समासा एवं पाठ्या उत्तरपदाधिक। रस्थत्वेनोत्तरपदस्य समास एवोपलब्धेः । एवं च कारिकायां हंससिहशब्दयोर्दृष्टान्तत्वेनैवापन्यासो युक्तः । यथा वर्णागमात् -- 60 हस्धातोरचि मकाररूपवर्णस्यागमाद्धं सशब्दस्य सिद्धिः, यथा वा - हिस्धातोरचि वर्णविपर्ययेण सिद्धिः तथा गूढ आत्मा यस्येत्यर्थे आत्मशब्दाकारस्य स्थाने उकाररूपवर्णविकारात् गूढोत्माशब्दस्य, पृषत् - उदरमित्थवस्थायां तका | नाशात् पृषोदरशब्दस्य च सिद्धिरिति तदर्थात् । एवं च 65 समास एवं प्रकृतसूत्रं प्रवर्तत इति नियमे न कोऽपि दोष इति । कृकलासशब्दमाह - कृतकेन शलतीति - - कृतकशब्दस्य हेतुतृतीयान्तस्य उवलादित्वेन णान्तेन शालशब्देन सह समासः । गणकार्यमाह--अत्र तकारस्य लोपः इत्यादिना, कृतकशब्दमध्यस्थितस्य तकारस्य लोपः शकार-लकारयो- 70 विपर्यासो वैपरीत्येन स्थितिः । भ्रमरशब्दं साधयति-भ्रमन् रौतीति-भ्रमदुपपदात् रौतेर्बाहुलकादेव डः, डित्वादुकारलोपः । गणकार्यमाह अत्र तलोप इति-भ्रमत्' इति शतृप्रत्ययान्तस्यान्ते तकारस्य लोप इत्यर्थः । गणेपठितान् यथोचितं व्युत्पाद्योपसंहरति-- एवंप्रकाराः 75

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254