________________
[ पाद-२, सूत्र - १५५ ]
धुरिति--शकस्य राजविशेषस्यापत्यं शकः शकशब्दादपत्यार्थे विहितस्य द्विस्वरनिमित्तस्याणो द्रिसंज्ञकस्य “शकादिभ्यो ब्रेल” [ ६. १. १२० ] इति लुप् शक इति, तस्थान्धुः कूपः-शकन्धुः । अन्ये तु शकानां राजविशेषाणां 5 निवासो जनपद: -- शकाः तेषामन्धुरिति देशविशेषपरत्वेन शकशब्दस्यात्र स्थितिमाहुः । अत्र निपात्यमाह - पूर्वपदा तस्योत्तरपदादेर्वा लोपः इति - पूर्वपदं शक शब्दस्तस्यान्ते स्थितस्याकारस्य, अन्धुशब्द उत्तरपदं तदादी स्थितस्य वाSकारस्य लोप इत्यर्थः, उभयोरकारयोः सत्त्वे हि समानदीर्घः 10 स्यादित्येकस्य लोप आवश्यक इति विनिगमनाविरहादुभ
श्रीसिद्धहेमचन्द्र शब्दानुसाशने तृतीयोऽध्यायः ।
योरपि पाक्षिको लोपोऽवगन्तव्य इत्यर्थः । उक्तं कार्यमन्य
त्राप्यतिदिशति---एवं-कर्क-धुरिति यथा शकन्धुरित्यत्र विग्रहादिकमुक्तं तथा कर्कन्धुरित्यत्रापि विज्ञेयमित्यर्थः, तत्र कर्कशब्दो राजविशेषपर इति परे, स्वमते च किमपि विशिष्य is नोक्तमिति राजविशेषपरत्वेऽपि देशविशेषपरत्वेऽपि वा न क्षतिः, केवलं रूढया देशविशेषपरत्वे बहुवचनान्तत्वमेव युक्तं, कर्काणां राजविशेषाणां निवासो जनपद इति विग्रहे कर्का इत्यस्यैव युक्तत्वात् राजविशेषपरत्वे च कर्कस्यान्धुरित्येकवचनान्तेन कर्काणामन्धुरिति बहुवचनान्तेन च विग्रहे कामचारः । कुलटाशब्दं व्युत्पादयितुमाह--अटतीत्यच्अटा इति-अद्धातोर्गत्यर्थादचि कृते स्त्रियामटेति रूपम् । कुलानामटेति-- कर्मणि षष्ठी, बहुकुलकर्मकगमनशीलेति तदर्थः, अत्र षष्ठीसमासे पूर्वपदान्तस्य उत्तरपदादेर्वाऽकारस्य लोप:, अस्याश्च प्रक्रियायाः शकन्धुशब्देऽभिहितत्वान्न 25 पुनरुक्तिः, यदि च कुलान्यटतीति सहैव विग्रहः करिष्यते
तर्हि ‘कुलाटी' इति स्यात्, कर्मोपदत्त्वादणापत्तेः, अत एव अटेति पृथगेव संसाधितम् । अवटशब्दं साधयति--अवअवागत अत्र वृत्ती- 'अव्' इति व्यञ्जनान्तः पाठः समुपलब्धः, स च नोचितः, अवेति स्वरान्तस्यैवोपसर्गस्य धातुना 30 सम्प्रयोगात्, तदर्थस्यैवावाक्शब्देनोच्यमानत्वात् अवाक्श
ब्दस्यैव वा अवादेशो वृत्तौ तथा सति तस्य [ अवशब्दस्य ] विग्रहवाक्ये प्रयोगानौचित्यमेव । अदन्त्यस्मिन्निति बाहुलकादिति-अद्धातोः केवलस्य घान्तस्य पुंनाम्नि प्रयोगा• भावः, सोपपदाच्च' घप्रत्ययविधानाभाव इति बाहुलकाश्रयणे 35 नंव घप्रत्ययसंभव इति भाव:, अत्रावागित्यर्थे अव इति-प्रादिपठितस्य पूर्वपदस्य अन्ते योऽकारस्तस्य 'अट:' इत्य . स्यादिर्वा योऽकारस्तस्य वा लोपः । अवटो गर्तः । अभि
20
१४७
" दिव्यवि०
धानचिन्तामणिवृत्तौ तु ---अवत्यस्मादवटः, [ उपा० १४२ ] इत्यटः । न वटतीति वा अवाक् अटति अस्मिन् बाहुलकात् "पुंनाग्नि०" [ ५.३.१३० ] इति 40 घे पृषोदरादित्वात् साधुरिति । सिंहशब्द व्युत्पादयति-हिनस्तीति सिंह इति । हिस्धातोरचि सति गणकार्य माहअत्र हकारसकारयोर्विपर्ययः इति-- आदिभूतो हकारः सकारत्वेन विपरीतः, अन्त्यसकारश्च हकारत्वेनेति । अत्र यद्यपि उत्तरपदाधिकारस्थं सूत्रमिदमिति सम्भावितोत्तर- 45 पदके समासे एवास्य प्रवृत्तिरुचितेत्येकपदकमिदमुदाहरणं नोचितमिति प्रतिभाति, तथापि गणपाठसामर्थ्यात् क्वचिदसमासेऽपि प्रवृत्तिरिति स्वीकार्यमिति न दोषः । अथवोणातगणपाठेनापि सिद्धिः सम्भवतीति सम्भवप्रदर्शनार्थमेवेदम् । 50 दिवेन बाहुलकादपि सिंहादिशब्दानां सिद्धौ सत्यामपि प्रकृयद्यपि -
"भवेद् वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वनाशात् पृषोदरम् ॥
इति प्राचां कारिकारीत्या हंससिंहादिशब्दानामपि प्रकृतगणे पाठादेव सिद्धिरित्यायाति तथापि तत्र हंस-सिंह- 55 शब्दयोर्दृष्टान्तत्वेनैवोपन्यास इति तद्वयाख्यातार इति सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिनीकृत्, तस्थायमाशय:प्रकृतसूत्रे गणे समासा एवं पाठ्या उत्तरपदाधिक। रस्थत्वेनोत्तरपदस्य समास एवोपलब्धेः । एवं च कारिकायां हंससिहशब्दयोर्दृष्टान्तत्वेनैवापन्यासो युक्तः । यथा वर्णागमात् -- 60 हस्धातोरचि मकाररूपवर्णस्यागमाद्धं सशब्दस्य सिद्धिः, यथा वा - हिस्धातोरचि वर्णविपर्ययेण सिद्धिः तथा गूढ आत्मा यस्येत्यर्थे आत्मशब्दाकारस्य स्थाने उकाररूपवर्णविकारात् गूढोत्माशब्दस्य, पृषत् - उदरमित्थवस्थायां तका
|
नाशात् पृषोदरशब्दस्य च सिद्धिरिति तदर्थात् । एवं च 65 समास एवं प्रकृतसूत्रं प्रवर्तत इति नियमे न कोऽपि दोष इति । कृकलासशब्दमाह - कृतकेन शलतीति - - कृतकशब्दस्य हेतुतृतीयान्तस्य उवलादित्वेन णान्तेन शालशब्देन सह समासः । गणकार्यमाह--अत्र तकारस्य लोपः इत्यादिना, कृतकशब्दमध्यस्थितस्य तकारस्य लोपः शकार-लकारयो- 70 विपर्यासो वैपरीत्येन स्थितिः । भ्रमरशब्दं साधयति-भ्रमन् रौतीति-भ्रमदुपपदात् रौतेर्बाहुलकादेव डः, डित्वादुकारलोपः । गणकार्यमाह अत्र तलोप इति-भ्रमत्' इति शतृप्रत्ययान्तस्यान्ते तकारस्य लोप इत्यर्थः । गणेपठितान् यथोचितं व्युत्पाद्योपसंहरति-- एवंप्रकाराः 75