Book Title: Swopagnyashabda maharnavnyas Bruhannyasa Part 3 2 3
Author(s): Hemchandracharya, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 223
________________ [पा० ३, सू० ५४-५५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । अधेः प्रसहने ॥ ३३७७. ॥ . त० प्र०-- अधेः परात् करोतेः प्रसहने वर्तमानात् कर्तर्यात्मनेपदं भवति । प्रसहनं पराभिभवः परेणापराजयों वा तं प्रसेहे तमभिभूतवान् तेन वा न पराजित इत्यर्थः । अथवा सहनं - क्षमा तितिक्षोपेक्षेति यावत् प्रकर्षेण सहनं-प्रसहनम् तच द्विधा - शक्तस्याशक्तस्य च “भवादृशाइचे 10 दधिकुर्वते परान् समर्था अपि यशुपेक्षन्ते तदा निराश्रया हन्त ! हता मनस्थिता" [किराते], 'अधिचक्रेन यं हरिः' सोढुमशक्तः सन् तेन न्यक्रियते । प्रसहन इति किम् ? तमधिकरोति । अधेरिति किम् ? शत्रून् प्रकरोति ।। ७७ ।। | फलवत्कर्तर्यात्मनेपदम फलवत्कर्त्तार च परस्मैपदमिति प्राप्ते |दृशाश्चेदधिकुर्वते रतिम्' इति पाठो लभ्यते, तथा सति व 40 ऽपि गन्धनाद्यर्थेष्वफल वत्यपि कर्तर्यात्मनेपदविधानार्थमिदं नात्रोदाहर्तुं योग्यमिद वाक्यमिति प्रकृतोदाहरणानुकूलमयसूत्रमिति ॥ ३ ३ ७६. ।। मेव पाठ: समीचीनः । प्रयोगार्थमुक्त्वा वाक्यं पूरयतिसमर्था अपि शत्रून् यद्युपेक्षन्ते तदा निराश्रया हन्त ! हता मनस्थिति - शत्रुभिः सर्वथाऽपकृता अपि तदभिभवे समर्थां अपि भवादशा महापुरुषाः परान् यद्युपेक्षन्ते तदा 45 मनस्विता, निराश्रया- निराधारा सती, हता- नष्टा, इति प्रतीयते, ये किल सर्वथा आत्मसंमानरक्षणे समर्थास्त एव मनस्विताया आश्रया इति तानवलम्ब्यैव सा जीवति, ते च भवादृशा एव भवन्ति । तेऽपि वेत् परकृतमपमानमुपेक्ष्य तत्प्रतीकारं न कुर्वन्ति, तहि मनस्विता व तिष्ठत्विति नश्ये- 50 देवेति भावः । अत्र शक्तस्य क्षमा प्रतीयत एव । अशक्तस्य क्षमां- प्रसहनमुदाहरति- "अधिचक्र े न यं हरिः" इति - हरिरिन्द्रो य दैत्यं न अधिचक्रे इत्यन्वयः । प्रयोगार्थमाहसोढुमशक्तः सन् तेन न्यत्क्रियत इति अत्राधिचक्रे इति क्रियाया: प्रसहनमेवार्थ:, स च नत्रा निषिध्यत इति 55 प्रसहनाभावो विज्ञायते, तदुक्तं- सोढुमशक्तः सन् इति, तेनपूर्वोपक्रान्तेन दैत्यविशेषेण न्यक्रियते- अभिभूयत इत्यर्थः । अधेः प्रयोगे प्रसनार्थस्यैव प्रतीतिरिति प्रागुदाहृतोदाहरणैनिश्चित्य विनाऽपि 'प्रसहने' इति पदं प्रसह एव भविष्यतीत्यभिमानेन पृच्छति प्रसहन इति किमिति । 60 आत्मनेपदमहिम्नैव प्रसहनार्थप्रतीतिनं तु सर्वत्राऽस्य तदर्थ - त्वमिति तदर्थाविवक्षायां मा भूदात्मनेपदमित्यर्थं प्रसन इत्यावश्यकमिति प्रत्युदाहरणेनाह- तमधिकरोतीतिप्रक्रान्तं कचित् कश्चिदधिकारे नियोजयतीत्यर्थप्रतीत्या प्रसहनार्थाभावेन नात्रात्मनेपदम् प्रसहन इति पदाभावे च 65 स्यादेवेत्याशयः । अधेरिति किमिति- अधिरूपोपसर्गसत्त्व एव प्रदार्थ प्रतीतिरिति विनाऽपि तद्ग्रहणं तत्पूर्व कादेव भविष्यत्यात्मनेपदमिति मत्वा प्रश्नः । शत्रून् प्रकरोतीतिअत्राधिशब्दाभावेऽपि शत्रूनभिभवतीत्ययं प्रतीतेः प्रसहनसत्त्वेऽप्यधिशब्दाभावान्न भवत्यात्मनेपदं सूत्रे तदुपादानाभावे 70 च स्यादेवेति तदुपादानमावश्यकमित्याशयः ॥। ३.३.७७. ।। दीप्ति - ज्ञान-यत्न - विमत्युपसंभाषोपमन्त्रणे वदः ॥ ३.३.७८॥ 5 श० म० न्यासानुसन्धानम् - अधेः । कुरा इति 15 प्रकृतम्, तदाह- अधेः परात् करोतेरिति । " षहि मर्षणे " इत्यस्मात् प्रपूर्वात् भावेऽनटि प्रसहनशब्दसिद्धिः तदर्थस्य सामान्यतो ज्ञानेऽपि प्रकृते विशेषार्थत्वेनेष्टत्वात् तदर्थमाह- प्रसहनं- पराभिभवः परेणापराजयो वेतिपरस्य - शत्रोः, अभिभवः तिरस्कारो विजयो वा, परेणा20 पराजयश्च परेण स्वकीयाभिभवाभाव एव, पूर्वत्र परस्मादुष्कृष्टत्वं परत्र तस्मादनपकृष्टत्वं प्रतीयत इत्येव विशेषः, तं हाधिचक्र इति- तमिति प्रक्रान्तं परमुपस्थापयति, ह इत्यव्ययं प्रसिद्धार्थकम् अधिपूर्वात् करोतेः परोक्षाया आत्मनेपर्दैकवचनस्य विधानम् । प्रयोगार्थमाह संक्षिप्य - 25 तं प्रसेहे इति । इममर्थमेव प्रसहनशब्दोक्तार्थानुकूलं विवृणोति तमभिभूतवान् तेन वा न पराजित इत्यर्थः । प्रसहनशब्दस्य विशेषार्थाविवक्षायां सोपसर्गसप्रत्ययधातुवाच्यप्रसिद्धार्थपरिग्रहेण तदर्थमाह- अथवा सहनं क्षमा तितिक्षापेक्षेति यावत् इति । मर्षणार्थत्वाद् धातोरूप30 सर्गेण च तदर्थस्यैव प्रकर्षबोधनात् प्रसनशब्दस्य भावार्थकानप्रत्ययान्तस्य क्षमैवार्थः, सा च द्विविधा तदपकारतितिक्षारूपा, तदीयोपेक्षारूपा वेत्युभयं गृहीतम् । तस्य द्वैविध्यमाह तच्च द्विधा शक्तस्याशक्तस्य चेति- शक्तस्य क्षमा तदुपरि दयया किमत्र क्षुद्रे वस्तुन्यहं पराक्रममाचरा35 मीति बुद्धचा वा; अशक्तस्य मयाऽस्य प्रतीकारे न शक्ष्यते इति बुद्धवा वरं तत्सहनमेवेति निश्चयेन । तत्र प्रथमप्रकारमुदाहरति- भवादृशाश्चेदधिकुर्वते परानिति युधिष्ठिरं प्रति द्रौपद्या वाक्यमिदं भारविकविविरचिते किरातार्जुनीये महाकाव्ये प्रथमसर्गे तत्र च सम्प्रति मुद्रिते पुस्तके • भवा २३३ त०प्र० - दीप्यादिष्वर्येषु गम्यमानेषु वदतेः कर्तर्यात्मनेपदं भवति । दीतिर्भासनम्, सा च कर्तृ विशेषणं वा, 75 वदनक्रिया सहचारिणो घात्वयो वा, केवलैव वा धात्वर्थः । वदते विद्वान् स्याद्वादे सम्यग्ज्ञानादनाकुलकथनाच विकसितमुखत्वाद् दीप्यमानो वदतीति वा वदन् वीप्यते- इति वा, दीप्यत एव वेत्यर्थः । ज्ञानमवबोधः तच वदिक्रियाया ।

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254