Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 14
________________ ( ११ ) इत्थं द्रव्यनिरूपणतत्परं द्वितीयाद्यध्याय त्रयम् । एतदनन्तरं निर्देशक्रमेण गुणंनिरूपणे कर्तव्येऽपि भोक्त ुरात्मनः, भोग्यानां विषयाणां भोगोपकरणानां शरीरेन्द्रियाणां च निरूपणे कृते भोगहेतोः तद्व्यवस्थापकस्य च पुण्यपापरूपस्य कर्मणः तद्वारा कर्मसामान्यस्य च उपस्थित्या तन्निरूपणं पञ्चमषष्ठाभ्यां क्रियते । अत्र लौकिकवैदिकभेदेन कर्मविभागमभिप्रेत्य श्रध्यायभेदकल्पनम् । अनन्तरं सप्तमप्रभृति दशमान्तं अध्यायचतुष्टयं गुणनिरूपणपरम् । तत्र सप्तमाद्ये रूपादयश्चत्वारो गुणाः परिमाणं च विषयीभवन्ति । द्वितीये सङ्खपापृथक्त्वे, संयोगविभाग परत्वापरत्वे च । अत्र संयोगेन शब्दार्थयोस्तदभावोपस्थापनद्वारा तत्सम्बन्धोपस्थापनात् तन्निरूपणं संयोगविभागनिरूपणानन्तरं क्रियते । अत्रान्ते इदमिति आधाराधेयभावव्यवस्थापकस्य समवायसम्बन्धरूपस्य षष्ठपदार्थभ्य लक्षणादिकमुच्यते । प्रष्टमे नवमे च बुद्धिनिरूपणम् । तत्र विशिष्टप्रत्यक्षस्य सकारणल्य अष्टमाद्ये । विशिष्टप्रत्ययवत् बुद्धयपेक्षः शाब्दव्यवहारः इन्द्रियार्थसन्निकर्षेत्येतद्घटकार्थ शब्दार्थः, इन्द्रियाणां प्रकृतिश्च द्वितीये । बाह्यभावप्रत्यक्षेतर प्रत्यक्षं नवमाद्ये । प्रत्यक्षप्रकरणे तद्विषयतया श्रसदिति धमिप्राधान्येन च प्रभावं निरूपयन् उद्देशसूत्रे अनिर्देशेन ज्ञापितं तस्याप्राधान्यमत्र यति । प्रत्यक्षेतरबुद्धिनिरूपणं द्वितीये । एतेन बाह्यभावप्रत्यक्षातिरिक्तज्ञाननिरूपणं नवमाध्यायकृत्यमिति फलति । सुखदुःखविषयं दशमस्य आद्यमाह्निकम् । इच्छाद्वेषप्रयत्वानां पञ्चमषष्ठयोः प्रसिद्धवद् व्यवहारेण तेषु विशेषेण निरूपणीयं नास्तीति मत्या तन्निरूपणात् उदास्तेति If I द्वतीये कारणत्रैविध्यं निरूप्य यथोपक्रमं धर्मस्य आम्नायप्रामाण्यस्य च कीर्त - न शास्त्रमुपसंह्रियते । ऋषिपदाभिधानेन ईश्वरसाधनमत्र विशेषः । एवमापाततः प्राकुलत्वभानेऽपि सर्वं सङ्गतमेवेति श्रवधानवतां प्रतिपत्तिभंवत्येव । षण्णां पदार्थानां साधर्म्यवैधम्र्म्यायां तत्त्वज्ञानस्य उद्दिष्टत्वेऽपि द्रव्यगुणकर्मणामेव तद्विशेषेण कुर्वन् तदितरेषां प्राधान्यं ज्ञापयति । एकस्मिन् सूत्रे

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 154