Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 78
________________ तृतीयाध्याये द्वितीयमाह्निकम् ५६ १५३. सन्दिग्धस्तूपचारः ॥ १६ ॥ तुकारः आक्षेपद्योतकः । अहंशब्दस्य प्रात्मवाचकत्वेन निश्चितत्वात् तत्सामानाधिकरण्येन प्रयुक्तो देवदत्तादिशब्दोऽपि आत्मवाचीति सिद्धयति । तेन देवदत्तो गच्छतीत्यादिषु व्यवहारेषु देवदत्तादिशब्दः शरीरे औपचारिक इत्युक्तम् । इदानीं तु अहंशब्दोऽपि शरीरपरः प्रयुज्यत इत्युच्यते । अत्र ब्रूमः । अहंशब्दः शरीरपरः मुख्य एवास्तु । एवं देवदत्त। दिशन्दोऽपि । किमुपचाराङ्गीकारेण । मुख्यत्व संभवे अमुख्यत्वाङ्गीकारायोगात् । अतोऽत्र भवता उच्यमान उपचारः संदिग्धः प्रङ्गीका - रानर्हः ॥ पूर्वसूत्र देवदत्तो गच्छतीत्युपचारात् इत्ययं भागः अनपेक्षितः । प्रभिमानात् तावदिति हेतुकथनात् उपचारो न तत्रोक्त इति, तेन 'संदिग्धस्तूपचार:' इत्यनेन सूत्रेणोपचारखण्डनमन्यथा नोपपद्यते इति च मन्यमानयजित इति मन्यामहे || 2 इममाक्षेपं परिहरति १५४. न तु शरीरविशेषाद यज्ञदत्तविष्णु मित्रयोर्ज्ञानं विषयः ।। १७ ।। तुकारः पूर्वपक्षं व्यावर्तयति । समागतौ यज्ञ दत्तविष्णुमित्रो अन्योन्यस्य शरीरविशेषं पश्यतः । परं तु अस्येदानीमिदं ज्ञानं वर्तत इति परस्परस्य ज्ञानं परस्परस्य नैव विषयो भवति । नैव ज्ञातं भवतीत्यर्थः । यदि शरीरगुणः स्यात् ज्ञानं तर्हि तद् ज्ञातं स्यात् । न तु ज्ञानं भवति । तस्मात् शरीराद्यतिरिक्तस्य कस्यचित् गुण इति दुरपह्नवमिदम् । देवदत्तोऽहं जानामीति असन्दिग्धाबाधित प्रतीतिबलात् सः अहमर्थं आत्मेति, देवदत्तादिशब्दः तस्यैव वाचक इति च निश्चीयते । एवं यज्ञदत्तो गच्छति, अहं गच्छामि इति प्रतीतिव्यवहारौ औपचारिकाविति उपपाद्यो । यदि तु पूर्वपक्षरीत्या अहंशब्द: देवदत्तादिशब्दश्च शरीरस्य मुख्यवाचको तहि अहं जानामि देवदत्तो जानातीत्यत्र अहंशब्ददेवदत्तशब्दयोरर्थः कः ? न तावच्छरीरम् । तस्य ज्ञानाश्रयत्वासंभवात् । नाप्यात्मा । शरीरस्याहमर्थत्वे तदतिरिक्तस्याहमर्थस्याप्रसिद्धेः । असिद्धस्य च औपचारिकतयाऽपि वाच्यत्वायोगात् । तस्मात् इमो शब्दो आत्मनि मुख्यौ । शरीरे औपचारिकाविति इयमेव व्यवस्था युक्त ेति न सन्दिग्धता १४

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154