Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag
View full book text ________________
अथाष्टमेऽध्याये प्रथममाह्निकम्
[१०६ राहित्यस्य तुल्यत्वात् । ननु ज्ञायत एवेदम् । किमर्था कण्ठोक्तिरिति चेत् आत्मनोऽ हम्प्रत्ययविषयत्वं पूर्वमुक्तम् । तेन घटपटादिवत् परकीयबाह्यप्रत्यक्षविषयत्वं मा शङ्कीत्येवमथं प्रात्मनोप्रत्यक्षरवमत्रोच्यते । नवद्रव्यप्रत्यक्षाप्रत्यक्षप्रकरणावसानव्यञ्जनाय नवसु चरमस्य मनसोऽप्यप्रत्यक्षत्वमुच्यत इति विभावनीयम् ।
३१६. ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरक्तः ॥३॥
ज्ञानस्य निर्देशे दव्यविशेषसाधनाय अभिधाने क्रियमाणे ज्ञानस्य तस्य निष्पत्तेः विधिः प्रकारः उक्तः प्रतिपादितः । “आत्मेन्द्रियार्थसन्निकर्षात् यन्निष्पद्यते तदन्यत" इति, "आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम्" इति च आत्ममनस्साधनाय ज्ञाननिर्देशः कृतः । तत्र प्रात्मा इन्द्रियैः संयुज्यते । इन्द्रियाणि अर्थः संयुज न्ते । ततो ज्ञानं उत्पद्यत इति ज्ञानोत्पत्तिप्रकार उक्तो भवतीति भावः । मनःसिद्धौ इन्द्रियशब्देन मनसोऽपि ग्रहणात् आत्मा मनसा, मनश्चक्षुरादिना, चक्षुरादिकं घटादिनेति सुग्रहमेव । इत्थं ज्ञानसामान्यस्य कारणमुक्त 'स्मारितम् । अथ ज्ञानविशेषाणां विशेषकारणान्युच्यन्ते ॥
३१७. गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तव्यं कारणम् ॥४॥
गुणस्य कर्मणो वा प्रत्यक्षरूपे ज्ञाने द्रव्यं स्वरूपतः कारणम्। कस्मात् । सन्निकर्षे सति हि प्रत्यक्षम्। गुणकर्मणोः प्रत्यक्षे च संयुक्तसमवायः सन्निकर्षः। द्रव्ये सत्येव इन्द्रियसंयुक्त तस्मिन् समवाय इत्ययं सन्निकर्षः सम्पन्नो भवेदिति । द्रव्यप्रत्यक्ष द्रव्यस्य साक्षादेव कारणत्वं न वक्तव्यमिति द्रव्यं विहाय गुणकर्ममात्रग्रहणम् ॥ ३१८. सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम्
॥५॥ गुणकर्मानन्तरपदार्थस्य सामान्यस्यापि प्रत्यक्षे पूर्ववद् द्रव्यं कारणमेव । अथापि तद्विशेष्यकज्ञानस्य स्वरसतोऽनुदयात् तदनुक्त्वा तत्प्रकारकप्रत्यक्षमनन्तरसूत्रे वक्ष्यन् तस्य प्रकारान्तरविशिष्टतया प्रतीतिर्नास्तीत्याह । सामान्यस्य विशेषम्य सामान्यविशेषस्य वा प्रत्यक्षं तत एव तस्मादेव सामान्यात् विशेषात् सामान्यविशेषाद्वा भवति, न तु सामान्यान्तरात् सामान्य विशेषान्तराद्वा। कुतः। सामान्यान्तरादेरभावात् ।
सामान्यविशेषप्रत्यक्षे सामान्य विशेषाः स्वयमेव कारणम् । नान्येऽपि सामान्यविशेषाः । तदभावात् । सामान्यविशेषाः स्वरूपेणैव प्रत्यक्ष प्रकाशन्ते । न धर्मान्तरविशिष्टतयेति भावः।
Loading... Page Navigation 1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154