Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag
View full book text ________________
अथाष्टमेऽध्याये प्रथममाह्निकम् ३२२. समवायिनः श्वत्यात् श्वैत्यबुद्धश्च श्वेते बुद्धिः । ते कार्यकारणभूते ॥६॥
द्रव्ये समवैति समवायसम्बन्धेन वर्तते इति समवायि । तस्मात् श्वैत्यात् विषयभूतात् श्वेतरूपात्, श्वैत्यबुद्धेश्च तद्विपयकज्ञानाच्च विशेषणज्ञानरूपात् श्वेते द्रव्ये बुद्धिर्भवति अयं श्वेत इति । पूर्व प्रत्यक्षस्य तत्तत्सापेक्षत्वमुक्तम् । तत्र सापेक्षत्वं नाम किमिति चेत् तदिह वित्रियते । अश्वे श्वेतरूपं वर्तते । संयुक्तसमवायात् सन्निकर्षात् तस्य बुद्धि: ज्ञानं प्रत्याक्षात्मकं जायते । ततः "अश्वः श्वेत' इति विशिष्टप्रत्यक्ष जायते । ते या प्रथममुत्पन्ना श्वैत्यबुद्धिः या च पश्चादुत्पन्ना श्वेते श्वैत्यवति द्रव्ये बुद्धिः, इमे उभे मिथः कार्यकारणभूते । कारणं च कार्यत्र कार्यकारणे । अल्पाच्तरत्वात् कार्यशब्दस्य पूर्व निपातः । पूर्वोत्पन्ना दैत्यबुद्धिः कारणम् । अनन्तरोत्पन्ना श्वेतद्रव्यबुद्धिः तस्य कारणम्य कार्यम् । गुणसापेक्षमित्युक्त "गुणात् सनिकृष्टात् विषयभूतात् तस्य ज्ञानं जायते । तस्मात् विशेषणज्ञानात् कारणभूतात् तद्गुणवद्रव्यज्ञानात्मकं विशिष्टज्ञानं कार्यभूतं जायते" इति कारणभूतविशेषणज्ञानद्वारा तदपेक्ष भवतीति प्रतिपत्तव्य मिति भावः । श्वैत्यस्य स्वज्ञानद्वारा विशिष्टज्ञानं प्रति कारणत्वेऽपि विषयतया साक्षादपि कारणत्वमस्तीति श्वैत्यात् श्वत्यबुद्धेश्चेति तुल्यवत् कारणत्वोक्तिरविरुद्धा।
कारणभूतं विशेषणज्ञानं निर्विकल्पकमाहुः । अन्यत्र सविकल्पकम् ॥ ३२३. द्रव्येष्वनितरेतरकारणाः॥१०॥
बुद्धिरिति अनुषज्य बहुवचनान्ततया विपरिणमयितव्यम् । द्रव्येषु द्रव्यविषया बुद्धयः इतरेतरकारणा न भवन्ति । अयं घट इति बुद्धिः इदानीं जायते । अन्यदा घट इति । पुनरन्यदा स्तम्भ इति । आसां बुद्धीनां स्वतन्त्रत्वात् अन्योन्यकारणकत्वं न मवति । एका बुद्धिरितरस्याः कारणं न भवतीत्यर्थः । प्रासां बुद्धीनां मध्ये कार्यकारणभावो नास्तीति यावत् । यद्यपि दण्डदण्डिबुद्धयोः तन्तुपटवबुद्ध घोश्च अस्ति कार्यकारणभावः तथाऽपि द्रव्यबुद्धयः सर्वाः द्रव्यान्तरबुद्धि कारणा न भवन्तीति नात्र विवक्षितम् । अपि तु द्रव्येषु केषाञ्चन बुद्धिः द्रव्यान्तरबुद्धिकारणा न भवति । यथा अयं घट इति बुद्धिः पटबुद्धि नापेक्षत इति । एवंविधा न भवति श्वत्यरूपगुणवति द्रव्ये बुद्धिः । श्वैत्यबुद्धिकारणकत्वादिति पूर्वोक्तस्यार्थस्य व्यतिरेकदृष्टान्तप्रदर्शनपरमिदं सूत्रम् । घटोऽयं नीलो महानिति गुणद्वयबुद्धयोरपि मिथः कार्यकारणभावाभावात् ते अन्यत्र निदर्शनतामर्हतः ।।
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154