Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 149
________________ १२८] वैशेषिकसूत्रवृत्तिः ३७१. कारणकारणसंयोगाच्च ॥ ६ ॥ न परं कारणे समवायात् संयोगः कारणं, अपि तु कारणकारणे समवायाच्च । कायपुस्तकसंयोगस्य समवायिकारणं कायः । कायस्य समवायिकारणं हस्तः । अस्मिन् समवायः हस्तपुस्तकसंयोगस्य । अयं कायपुस्तकसंयोगस्यासमवादि कारणम् ॥ ३७२. संयुक्तसमवायादग्नेर्वैशेषिकम् ॥ ७ ॥ विशेष एव वैशेषिकम् । विशेषगुणः । असाधारणगुण इति यावत् । अग्नेरसाधारणो गुणः उष्णस्पर्शः । सः संयुक्तसमवायात् स्वकार्यस्य यत्समवायिकारणं तेन यत् संयुक्त तत्र समवायात् कारणं भवति । पाकजरूपादीनां समवायिकारणं परमाणुः । तेन संयुक्तोऽग्निः। तत्र समवायः उष्णस्पर्शस्य । अयं पाकजरूपादेरसमवायिकारणम् । एवं समवायिकारणं असमवायिकारणं निमित्तकारणमिति त्रिविधं कारणं निरूपितम् । उद्देशसूत्रे तत्त्वज्ञानान्निःश्रेयसमिति अन्ते पञ्चम्या तत्त्वज्ञानं कारणमुक्तम् । अत इह शास्त्रान्ते कारणनिरूपणमिति ज्ञेयम् ॥ ३७३. दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय ॥८॥ कृतेन विस्तृतेन निरूपणेन पदार्थानां तत्त्वज्ञान सम्पाद्य वेदविहितानि कर्माण्यनुष्ठेयानि । तत्रोपयुज्यमानानि द्रव्याणि गुणाश्च क्रियमाणानि कर्माणि च लोकसिद्धा एव पदार्थाः । तेषां प्रयोजनान्यपि लोकसिद्धानि तानि तानि भवन्ति । परन्तु तेषां यज्ञान्तर्गततया प्रयोगे दृष्टं फलं किमपि नास्ति । न हि हूयमानस्य हविषः चतुरो मुष्टीन निर्वपतीति विहितसङ्ख्यापरिमाणादेः प्रयाजानूयाजादिरूपकर्मणां च दृष्टं फलं किमप्यस्ति । न च तावता निष्फलत्त्वमेव । वेदविहितत्वात् । तहि किं फलमिति चेत् अभ्युदयः । अपूर्वद्वारा स्वर्गादिकं तत्र तत्र वेद एव श्रूयमाणम् । अथातो धर्म व्याख्यास्याम इति प्रतिज्ञातं धर्मव्याख्यानं इत्थं अतिसंक्षेपात् कृतमिति ज्ञेयम् । ३७४. अस्मद्बुद्धिभ्यो लिङ्गभूषेस्तद्वचनादाम्नायस्य प्रामाण्यम् ।६॥ आम्नायस्य प्रामाण्यं सिद्धं कृत्वा तत्प्रामाण्यं धर्मबोधकत्वादेव । अन्यथा इतरेषां सर्वेषामर्थानां प्रत्यक्षानुमानाभ्यामवगतत्वेन प्रमेयाभावात् तस्याप्रामाण्यमेव स्यात् । अतो वेदप्रामाण्यमङ्गीकुर्वद्भिः अत एव तत्प्रमेये धर्मे श्रद्धालुभिः तस्य ज्ञानं

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154