Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 134
________________ अथाष्टमेऽध्याये द्वितीयमाह्निकम् ३२५. अयमेष त्वया कृतं भोजयनमिति बुद्धयपेक्षम् ॥१॥ बुद्धयपेक्षं प्रत्यक्षमुक्तम् । अथाद्य तदपेक्षं शब्दमाह । अयं पुरोवर्ती पुरुषः एष सदाचारसम्पन्नः श्रोत्रियः । पूर्व तस्य आचारसम्पन्नत्वं श्रोत्रियत्वं च ज्ञातवत एव एवं व्यवहारो भवति । त्वया कृतमिति व्यवहारोऽपि स्वच्छब्दवाच्यपुरुषस्य प्राक्तनी क्रियां ज्ञातवत एव । एनमित्यन्वादेशः । प्रथम इमं प्रति किञ्चिदुक्तमिति जानत एव एवमन्वादेशप्रयोगो भवति । एवमेते शब्दाः पूर्ववृत्तविषय बुद्ध यपेक्षाः । अत्र बुद्धिरिति प्राक्तनोऽनुभवो वा तज्जन्याऽद्यतनी स्मृतिर्वा ग्राह्या । "अयं विशिष्टः । त्वया पचनं कृतम् । अतस्त्वमेनं भोजये"ति वाक्यैकवाक्यताऽत्राभिप्रेतेति युक्त वक्तुम । ३२६. दृष्टेषु भावाददृष्टेष्वभावात् ॥२॥ दृष्टेषु पूर्व ज्ञातेष्वेव पुरुषादिषु ईदृशव्यवहारस्य भावात सत्त्वात्, अदृष्टेषु तेषु अभावात् असत्त्वाच्च अन्वयव्य तिरेकाभ्यां "अयमेष 'इति बुद्धयपेक्षम' इति पूर्वेण योज्यम् ॥ ३२७. अर्थ इति द्रव्यगुणकर्मसु ॥३॥ अर्थ इतीदं पदं द्रव्यगुणकर्मसु वर्तत इति शेषः । तद्वाचकमित्यर्थः । आत्मेन्द्रियार्थसन्निकर्षजं ज्ञानमित्युक्तम् । तत्र ज्ञाने निरूपिते, इन्द्रियाणां यः सन्निकर्षः तस्य कारणं. तान अर्थशब्देन विवक्षितान विषयान विशदीकरोति इदं सूत्रम् । यद्यपि सत्तादिसामान्यमपि विषयः, तत्सन्निकर्षोऽपि तज्ज्ञानकारणं, तथाऽपि भोगार्थमर्थ्यमानानामेव विषयाणां इन्द्रियार्था इति प्रसिद्धत्वात् रूपरसादीनां गुणानां, तदाश्रयाणां द्रव्याणां, दर्शनश्रवणादीनां कर्मणां चैव तादृशविपयत्वात, एते त्रय एव पदार्था अर्थपदवाच्यतयोक्ता इति ज्ञयम् । ३२८. द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् ॥४॥ द्रव्येषु करयापि भूतपञ्चकसमुदायरूपत्वं नास्तीति पूर्वमुक्तम् । पृथिव्यादित्रिकरूपत्वं च प्रतिषिद्धमित्यपीहाभिप्रेतम । इन्द्रियार्थसन्निकर्पत्यत्र अर्थशब्दार्थ

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154