Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 133
________________ वैशेषिकसूत्रवृत्ती ३१६. सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु ॥६॥ ज्ञानमित्यनुवर्तते । द्रव्यगुणकर्मविषयकं ज्ञानं सामान्यविशेषसापेक्षम् । तत्कारणक मित्यर्थः। द्रव्यगुणकर्मप्रत्यक्षे विशेषणतया सामान्यादिकं भाति । अतः इदं तत्र कारण मिति भावः । अयं घटः सन्निति प्रत्यक्षे सत्ताविशिष्टतया घटः प्रकाशते । सत्ता तु स्वरूपेण । न धर्मान्तरविशिष्टतया। अतः सत्ताज्ञानं सामान्यादिनिरपेक्षम् । तदेव तु घटज्ञानं भवत् सत्तारूपसामान्यसापेक्षम् । अयं घट इति प्रत्यक्षे घटत्वरूपो विशेषः स्वरूपेण, घटव्यक्तिः घटत्वरूपविशेषवत्तया च प्रकाशते । इदं द्रव्यं इदं पृथिवीत्यत्र द्रव्यत्वपृथिवीत्वे सामान्यविशेषौ स्वरूपेण प्रकाशेते । द्रव्यव्यक्तिविशेषस्तु तद्वत्तया। एवं द्रव्ये ज्ञानं सामान्य विशेषापेक्षम् । एवं गुणे कर्मणि च बोद्धव्यम् । ३२०. द्रव्ये द्रव्यगुणकर्मापेक्षम् ॥७॥ द्रव्ये ज्ञानं द्रव्यगुणकर्माण्यपेक्ष्य भवति । अयं पुरुषो दण्डीति प्रत्यक्षे दण्डरूपद्रव्यापेक्षम् । स्थूलः नीलः इत्यादिप्रत्यक्षे गुणापेक्षम् । गच्छति पचतीति प्रत्यक्ष कर्मापेक्षम् । द्रव्यगुणकर्मणां त्रयाणामपि सामान्य विशेषापेक्षज्ञानत्वं साधयं पूर्वसूत्रे उक्तम् । अथ द्रव्यस्य गुणकर्मणोश्च वैधयं ज्ञापयन् अत्र द्रव्यज्ञानस्य द्रव्यगुणकर्मापेक्षत्वमाह । गुणकर्मज्ञानस्येदं नास्तीत्यर्थ सिद्धम् । ३२१. गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते ॥८॥ गुणेषु कर्मसु च ज्ञानं गुणकर्मापेक्षं प्रकारतया गुणान्तर क्रियान्तरे अपेक्षमाणं नास्ति । कुतः । गुणे गुणो वा कर्म वा नास्ति । एवं कर्मण्य पि गुणो वा कर्म वा नास्ति । इदं पूर्वमेवोक्तम् । अतः गुणकर्मप्रकारकं गुणकर्मप्रत्यक्षं नास्तीत्यर्थः। पूर्वसूत्र एव गुणकर्मणोः ज्ञानस्य द्रव्यगुणकर्मसापेक्षत्वविरहो ज्ञापितः । तथाऽपि गुणकर्मणोः द्रव्याश्रयत्वाभावस्य सुप्रसिद्धत्वात् तज्ज्ञानस्य गुणो द्रव्यवान् इत्याद्याकारत्वं न सम्भवतीति न वक्तव्यम् । चतुर्विंशतिर्गुणाः, रूपमुत्पद्यते, पञ्च कर्माणि, कर्मानुवर्तते इत्यादिरीत्या गुणकर्माश्रयत्वस्य तु व्यवहारबाहुल्यात् प्रकारतया तदवगाहि प्रत्यक्षं गुणकर्मणोमवितुमर्हतीति अस्ति भ्रमस्यावकाशः । अत इह स्पष्टोक्तिरिति ज्ञेयम् ॥

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154