Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 139
________________ ११६] वैशेषिकसूत्रवृत्ती अथ ववमेऽध्याये प्रथममाह्निकम् ३३१. नियागुणव्यपदेशाभावात् प्रागसत् ॥ १ ॥ ज्ञानात्मक गुणनिरूपणप्रकरणमनुवर्तते । तत्र बाह्यभावप्रत्यक्षमुक्तम् । अद्य अभावप्रत्यक्षं विवक्षितम् । तत्र प्रथमं अभाव एव निरूप्यते ।। कार्य वस्तु उत्पत्तेः प्राक् असत् अविद्यमानं भवति । विद्यमानं हि स्वोचितो क्रियां कुर्यात् , गुणाधारः स्यात्, "अयं घटः, इभमादाय जलमाहर" इत्यादिशाब्दव्यवहारविषयः स्यात् । न चोत्पत्तेः प्राक् कस्यचिद्वस्तुन' एते धर्माः सन्ति । अतस्तत् प्रागसत् । प्रागसत्त्वं प्रागभावः । एतेन प्रागभावो नाम कश्चिदस्तीति तन्निरूपणं कृतं भवति ॥ ३३२. सदसत् ॥ २॥ सत् अद्य विद्यमानं कार्य वस्तु पश्चात् असद् अविद्यमानं भवति । क्रियागुणव्यपदेशाभावात् । पश्चादसत्त्वं ध्वंसः । एतेन प्रध्वंसाभावो निरूपितो भवति ॥ ३३३. असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् ॥ ३ ॥ ननु सत् असदिति वस्तुनो विशेषणे । कार्य घटपटादि अद्य सत् पूर्व पश्चाच्च असदिति । तथा च सत्त्वासत्त्वे एकस्य वस्तुनो द्वे अवस्थे । तत्र प्रागमावः प्रध्वंसाभाव इत्यतिरिक्तः पदार्थः कथं सिद्धयतीत्यत्रेदमुच्यते । अवस्था नाम धर्मविशेषयोगः । सत्त्वमवस्थेति युज्यते । देशविशेषकाल विशेषसम्बन्धो हि सत्त्वं नाम । उपलब्धिविषयत्वं वा । इदं घटपटादिस्वरूपे सति भवति । अत इयं तस्यावस्था ! प्राक् पश्चाच्च धर्मिस्वरूपमेव नास्ति । क्रियागुणव्यपदेशाभावात् । तस्य असत्त्वाभिधानमवस्थायोगः कथं भवेत् । तस्मात् अभावं नाम पदार्थान्तरमभ्युपगम्य प्रागभावप्रतियोगित्वं प्रागसत्त्वम्, प्रध्वंसाभावप्रतियोगित्वं पश्चादसत्त्वमिति असत्त्वव्यवहार उपपादनीयः । पूर्व पश्चाच्च असतो वस्तुनः क्रियागुणव्यपदेशाभावात् यतः स्वरूपमेव नास्ति अतस्तम्य असत्त्वरूपावस्थाविशेषस्यासम्भवात् असत्त्वव्यवहारनिर्वाहकं अर्थान्तरमङ्गीकार्यम् । तदर्थान्तरमभाव इति सूत्रार्थः ।

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154