Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag
View full book text ________________
अथनवमेऽध्याये प्रथममाह्निकम् ३३४. सच्चासत् ॥ ४ ॥
तृतीयमभावं निरूपयति । चकार एवार्थे । सदेवासत् । पूर्वोक्त द्विविधमपि प्रसत्त्वं सत्त्वासमानकालिकम् । इदं तु तृतीयमसत्त्वं सत्त्वसमानकालिकम् । सदेव वस्तु असदपि भवति । कस्मात् । क्रियागुणव्यपदेशाभावात्। यथा घटः स्वस्वरूपेण सन्नेव पटस्वरूपेरणासन् भवति । पटक्रियागुणव्यपदेशानाम भावात् । इदमसत्त्वं अन्योन्याभाव इति भेद इति चोच्यते ॥
३३५. यच्चान्यदसदतस्तदसत् ॥ ५ ॥
चतुर्थमभावं निरूपयति । अतः उक्तात् त्रिविधादसतः अन्यत् अतिरिक्तं यदसत् तत् असत्, प्रागसत्, पश्चादसत् वर्तमानमेव असत् इति परिच्छेदं विना केवलमसद् भवति । कालिका: दिति यावत् । अनेन अत्यन्ताभाव उक्तः । वायौ रूपस्य ईदृशोऽ भावः । चकारः तच्चासदिति समुच्चयायः । अमावनिरूपणावसानज्ञापनार्थश्च । ३३६. असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेविरोधिप्रत्य
___ क्षवत् ॥ ६॥ एवं विषयं निरूप्य तत्प्रत्यक्षं सकारणमाह । असदिति असदित्येतत् । असदिति ज्ञानमित्यर्थः। तत् भूतप्रत्यक्षाभावात् भूतस्मृतेश्च उत्पद्यते । भूतं वस्तु। यद्वस्तु असदित्युच्यते अथवा प्रतीयते तस्य वस्तुनः प्रत्यक्षाभावे सति, स्मृती सत्यां च तद्वस्तु असदिति ज्ञानं जायते । भूतले फले दृश्यमाने "इह फलमसदिति" ज्ञानानुदयात् अस्य ज्ञानस्य फलप्रत्यक्षाभावः कारणम् । अदृश्यमानस्य फलस्य स्मरणाभावेऽपि तस्य ज्ञानस्यानुदयात् तत्स्मरणमपि कारणम् । तत्र दृष्टान्तमाह-विरोधीति । नकुल विहरणदेशे 'सा इह असन्तः' इति यथा तथेति । विरोधिप्रत्यक्ष इवेति सप्तम्यन्ताद्वतिः । विरोधिप्रत्यक्षे सति यथा विरोध्यन्तरप्रत्यक्षाभावात् तत्स्मृतेश्च विरोध्यन्तरमसदिति ज्ञानं भवति तथा भूतले फलाभावे फलप्रत्यक्षाभावात् फलस्मृतेश्च फलमसदिति ज्ञानं भवतीति भावः ।।
३३७. तथाऽभावे भावप्रत्यक्षत्वाच्च ॥ ७ ॥
यथा असतिं वस्तुनि तत्प्रत्यक्षाभावात् तत्स्मृतेश्च तदत्र असदिति' बुद्धिर्जायते । तथा तदभावेऽपि ताभ्यामेव हेतुभ्यां घटाभाववान् अयं देश इति । अथवाऽत्र घटाभाव इति । परंतु अत्र भावप्रत्यक्षत्वमपि अपरो हेतुः । भावः प्रतियोगी पदार्थः । तस्य प्रत्यक्षत्वं प्रत्यक्षयोग्यत्वम् । प्रत्यक्षयोग्यघटादिप्रतियोगिक वामावे उक्तहेतुभ्यां प्रत्यक्षात्मिका बुद्धिर्जायत इत्यर्थः।
Loading... Page Navigation 1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154