Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag
View full book text ________________
१०८]
वैशेषिकसूत्रवृत्ती
अथाष्टमेऽध्याये
प्रथममाह्निकम् परत्वापरत्वनिरूपणानन्तरं क्रमप्राप्तं बुद्धि निरूपणमारभते । बुद्धिर्ज्ञानमिति पर्यायौ।
३१४. द्रव्येषु ज्ञानं व्याख्यातम् ॥ १॥
द्रव्येषु द्रव्यनिरूपणपरेषु द्वितीयतृतीयचतुर्थेषु अध्यायेषु तदुपयौगितया रूपरसादिकमिव ज्ञानमपि केनचिदाकारेण निरूपितमिति स्मारयत्यनेन सूत्रेण । "आत्मेन्द्रियार्थसन्निकर्षात यन्निष्पद्यते तदन्यत्' इति आत्मादिव्यतिरिक्तो ज्ञानरूपो गुणोऽस्तीति निरूपितमिति भावः । उपरि विशेषकथनाय इदं स्मारणम् । इह ज्ञानं प्रत्यक्षरूपम् ।
३१५. तत्रात्मा मनश्चोप्रत्यक्षे ॥२॥
तत्र आत्मेन्द्रियघटादिसन्निकर्षात् निष्पद्यमाने ज्ञाने आत्मा न प्रत्यक्षः न विषयः । मनश्च न प्रत्यक्षम् । यथा मनोऽन्यद्वा करणं न प्रत्यक्ष तथा कर्ताऽऽत्माऽपि न प्रत्यक्ष इति भावः । केचिद् घटादिज्ञाने प्रात्मनोऽपि विषयत्वमाहुः घटमहं जानामीति । तन्निराकरणमिह क्रियते । तत्रात्मनो विषयत्वे न किमपि प्रमाणम् । अयं घट इत्येव प्रत्यक्षाभिलापादिति सूत्रकारो मन्यते । एतेन ज्ञानं स्वयमपि तत्र न विषय इत्यप्यस्य मतमिति ज्ञयम् । सूत्रद्वयमिदं प्रकारान्तरेणापि व्याख्यातुमुचित मिति भाति । .३१४. द्रव्येषु ज्ञानं व्याख्यातम् ॥
द्रव्येष्विति विषयसप्तमी । द्रव्यविषयकं ज्ञानं निरूपितम् । द्रव्यविषयकं ज्ञानं अनेन कारणेन उत्पद्यत इति तदभावे नोत्पद्यत इति निरूपितमिति भावः । पृथिव्यप्तेजस्सु “महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः। अद्रव्यद्रव्यत्वात्परमाणावनुपलब्धिः" इत्युक्तम् । वायो "रूपसंस्काराभावादनुपलब्धिः" इति च । अनेन आकाशकालदिशामप्यनुपलब्धिय॑ञ्जिता।
३१५. तत्रात्मा मनश्चाप्रत्येक्षे॥ तत्र तेषु द्रव्येषु वाथ्वाकाशकालदिश इव आत्ममनसो अपि अप्रत्यक्षे । रूप
Loading... Page Navigation 1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154