Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 127
________________ १०६] वैशेषिकसूत्रवृत्ती वर्तते । तेन कथं सा तत्र परत्वं अपरत्व वा जनयेदिति शङ्कायां सर्वाधारे काले अपेक्षाबुद्धिसहिता सा परत्वापरत्वे जनयति, परापरकालसंयोगश्च वस्तुनि परत्वमपरत्वं च जनयतीति सिद्धं कालस्य कारणत्वम् । एवं दिशि विद्यमाना संयुक्तसंयोगपरम्परा अपेक्षाबुद्धिसहिता तस्यां परत्वमपरत्वं च जनयति । परापरदिक्संयोगश्च वस्तुगतं परत्वमपरत्वं च जनयतीति ॥ ३०८. परत्वापरत्वेयोः परत्वोपरत्वोभावोऽणुमहावाभ्यां व्याख्यातः ॥२३॥ यथाऽणुत्वमहत्त्वयोः अणुत्वमहत्त्वाभावः, अद्रव्यत्वात्, तथा परत्वापरत्वयोः परत्वापरत्वाभावः। । अद्रव्यत्वस्य तुल्यत्वात् ।। ३०६. कर्मभिः कर्माणि ॥ २४ ॥ कर्मभिरद्रव्यः कर्माणि गुणरहिततया अत एव परत्वापरत्वरहिततया व्याख्याताः। ३१०. गुणैर्गुणाः ॥ २५ ॥ गुणैरद्रव्यैः गुणाः गुणरहिततया अत एव परत्वापरत्वरहिततया व्याख्याताः । अत्र प्राक्तनरीतिमनुसृत्य "अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः' इत्यप्यनुसन्धेयं प्रतीमः। बाह्यगुणनिरूपणं वृत्तम् । अथात्मगुणनिरूपणं अनन्तरेऽध्याये करिष्यति । पत्र तु प्रसङ्गात् षट्पदार्थ्या निरूपणाय अवशिष्टं अन्तिमं समवायं निरूपयन् प्रथम तस्य प्रमाणं लक्षणं च दर्शयति ३११. इहेदमिति यतः कार्यकारणयोः स समवायः॥ २६ ॥ इह अस्मिन् वस्तुनि इदं एतद् वस्तु वर्तते, इति इत्येवंरूपः प्रत्ययः यतः यस्मात् सम्बन्धाद् भवति स सम्बन्धः समवायः समवायशब्दवाच्यः । नियामकं सम्बन्धविशेषं विना इहेदमिति नियतः प्रत्ययो न भवितुमर्हति । अतः एतर त्प्रत्ययलिङ्गकमनुमानं समवाये प्रमाणम् । आधाराधेयभावहेतुभूतसम्बन्धत्वं तस्य लक्षणमिति भावः । न च भूतले घट इति प्रत्ययहेती संयोगे अतिव्याप्तिरिति शङ्कयम् । आधाराधेयभ वाव्यभिचारिसम्बन्धत्वस्य लक्षणत्वात् । समानाधिकरणयोमिथः संयुक्तयोरपि घटयोः प्राकाशघटयोश्च आधाराधेयभावविरहेण संयोगस्य तद्वयभिचारित्वात् । अवयवेषु अवयवी, द्रव्ये गुणः कर्म च, द्रव्यगुणकर्मसु सामान्यम्, नित्यः

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154