Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 126
________________ सप्तमेऽध्याय द्वितीयमाह्निकम् [१०५ तस्मादागतः तद्नानादुत्पद्यते नियतस्यास्य बोधः । चिरन्तनोऽद्यतनो वा सङ्केत एव शब्दार्थयोः सम्बन्ध इति भावः ।। संयोगविभागनिरूपणं वृत्तम् । अथ क्रमप्राप्तं परत्वापरत्वनिरूपणं क्रियते-- ३०६. एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च ॥२१॥ एका दिक् ययोः ते एकदिक्के । ताभ्यां सन्निष्टविप्रकृष्टाभ्यां वस्तुभ्यां परमपरं च वस्तु ज्ञेयम् । एकस्यां दिशि विद्यमानयोर्वस्तुनोर्मध्ये यत् विप्रकृष्टं दूरे स्थितं तेन परं परत्वगुणविशिष्टं वस्तु ज्ञेयम् । यत् सन्निकृष्टं तेन अपरं अपरत्वगुणविशिष्टं वस्तु ज्ञेयम् । विप्रकृष्टे वस्तुनि परत्वं सन्निकृष्टे अपरत्वं च वर्तत इति ज्ञयमिति भावः। परमपरं चेत्यल सन्निकृष्टविप्रकृष्टाम्यामित्यस्य यथासङ्घयान्वयो न विवक्षितः । अपितु "अव्यक्तव्यक्तरूपाय स्थूलसूक्ष्मात्मने नमः" इत्यत्रेव प्रातिलोम्येनान्वयः । इमे दैशिकपरत्वापरत्वे । अथ कालिकपरत्वापरत्वे । एककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरं च ज्ञेयमिति । एककालवर्तिनी द्वे शरीरे । तत्र एक दीर्घकालात् पूर्व जातम् । तत् परम् । तदपेक्षया अल्पकालात् पूर्व जातमपरम् । दूरदेशसन्निहितदेशवर्तिनोः द्वयोः परस्परं दैशिकपरत्वापरत्वे । पूर्वकालानन्तरकालजातयोः मिथः कालिकपरत्वापरत्वे । ____ मनु संयुक्तसंयोगपरम्परामा अल्मत्वं दैशिकः सन्निकर्षः । तस्या बहुत्वं विप्रकर्षः । एवं कालावच्छेदकक्रियापरम्पराबहुत्वं कालिकः विप्रकर्षः । तदल्पत्वं सन्निकर्षः । उभयविघोऽप्ययं विप्रकर्ष एव वस्तुनः परत्वम् । सन्निकर्ष एव च अपरत्वम् । न तु तदतिरिक्तौ गुणौ । न वा तत्र दिक्कालयोः कारणत्त्वम् । इति चेदत्राह ३०७. कारणपरत्वात् कारणापरत्त्वाच्च परत्वापरत्वे ॥ २२ ॥ न तावत् सन्निकर्षविप्रकर्षावेव परत्वापरत्वे । सन्निकर्षस्य व्यवधायकाल्पत्वरूपतया, विप्रकर्षस्य व्यवधायकबहुत्वरूपतया च सखण्डपदार्थत्वात् परत्वापरत्वयोश्च प्रखण्डरूपत्वात् । परं विप्रकृष्टं अपरं सन्निकृष्टं, इति विवरणेऽपि गन्धवती पृथिवीत्यत्र गन्धवत्त्वपृथिवीत्वयोरिवात्यन्तं भेदात् । एतद्ज्ञापनायव पूर्व “सन्निकृष्टविप्रकृष्टाभ्यां परमपर च" इति विभक्तिभेदेन निर्देशः । तत्र एकस्यैव वस्तुनः आपेक्षिकपरत्वापरत्वयोः प्रतीत्या अनयोरपेक्षाबुद्धिजन्यत्वं, अत एवानित्यत्वं च सिद्धम् । तत्र अभिमता महती अल्पा वा कालावच्छेदकक्रियापरम्परा परमपरमिति प्रतीयमाने बस्तुनि न

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154