________________
सप्तमेऽध्याय द्वितीयमाह्निकम्
[१०५ तस्मादागतः तद्नानादुत्पद्यते नियतस्यास्य बोधः । चिरन्तनोऽद्यतनो वा सङ्केत एव शब्दार्थयोः सम्बन्ध इति भावः ।।
संयोगविभागनिरूपणं वृत्तम् । अथ क्रमप्राप्तं परत्वापरत्वनिरूपणं क्रियते--
३०६. एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च ॥२१॥
एका दिक् ययोः ते एकदिक्के । ताभ्यां सन्निष्टविप्रकृष्टाभ्यां वस्तुभ्यां परमपरं च वस्तु ज्ञेयम् । एकस्यां दिशि विद्यमानयोर्वस्तुनोर्मध्ये यत् विप्रकृष्टं दूरे स्थितं तेन परं परत्वगुणविशिष्टं वस्तु ज्ञेयम् । यत् सन्निकृष्टं तेन अपरं अपरत्वगुणविशिष्टं वस्तु ज्ञेयम् । विप्रकृष्टे वस्तुनि परत्वं सन्निकृष्टे अपरत्वं च वर्तत इति ज्ञयमिति भावः। परमपरं चेत्यल सन्निकृष्टविप्रकृष्टाम्यामित्यस्य यथासङ्घयान्वयो न विवक्षितः । अपितु "अव्यक्तव्यक्तरूपाय स्थूलसूक्ष्मात्मने नमः" इत्यत्रेव प्रातिलोम्येनान्वयः । इमे दैशिकपरत्वापरत्वे । अथ कालिकपरत्वापरत्वे । एककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरं च ज्ञेयमिति । एककालवर्तिनी द्वे शरीरे । तत्र एक दीर्घकालात् पूर्व जातम् । तत् परम् । तदपेक्षया अल्पकालात् पूर्व जातमपरम् । दूरदेशसन्निहितदेशवर्तिनोः द्वयोः परस्परं दैशिकपरत्वापरत्वे । पूर्वकालानन्तरकालजातयोः मिथः कालिकपरत्वापरत्वे ।
____ मनु संयुक्तसंयोगपरम्परामा अल्मत्वं दैशिकः सन्निकर्षः । तस्या बहुत्वं विप्रकर्षः । एवं कालावच्छेदकक्रियापरम्पराबहुत्वं कालिकः विप्रकर्षः । तदल्पत्वं सन्निकर्षः । उभयविघोऽप्ययं विप्रकर्ष एव वस्तुनः परत्वम् । सन्निकर्ष एव च अपरत्वम् । न तु तदतिरिक्तौ गुणौ । न वा तत्र दिक्कालयोः कारणत्त्वम् । इति चेदत्राह
३०७. कारणपरत्वात् कारणापरत्त्वाच्च परत्वापरत्वे ॥ २२ ॥
न तावत् सन्निकर्षविप्रकर्षावेव परत्वापरत्वे । सन्निकर्षस्य व्यवधायकाल्पत्वरूपतया, विप्रकर्षस्य व्यवधायकबहुत्वरूपतया च सखण्डपदार्थत्वात् परत्वापरत्वयोश्च प्रखण्डरूपत्वात् । परं विप्रकृष्टं अपरं सन्निकृष्टं, इति विवरणेऽपि गन्धवती पृथिवीत्यत्र गन्धवत्त्वपृथिवीत्वयोरिवात्यन्तं भेदात् । एतद्ज्ञापनायव पूर्व “सन्निकृष्टविप्रकृष्टाभ्यां परमपर च" इति विभक्तिभेदेन निर्देशः । तत्र एकस्यैव वस्तुनः आपेक्षिकपरत्वापरत्वयोः प्रतीत्या अनयोरपेक्षाबुद्धिजन्यत्वं, अत एवानित्यत्वं च सिद्धम् । तत्र अभिमता महती अल्पा वा कालावच्छेदकक्रियापरम्परा परमपरमिति प्रतीयमाने बस्तुनि न