Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 103
________________ वैशेषिकसूत्रवृत्ती क्रियारहिता गुणाः यथा कारणं भवन्ति तथव दिगपि क्रियारहित व परत्वापरत्वे प्रति कारणं भवतीति ज्ञयमिति भावः । २२८. कारणेन कालः ।। २७ ॥ व्याख्यात इति विपरिणतमनुषज्यते । क्रियारहित एव कारणमिति ज्ञापित इति तदर्थः । कारणेन “नित्येष्वभावाद नित्येषु भावात् कारणे कालाख्या" इति कालः कारणमिति वदता सूत्रेणेत्यर्थः। __ वसन्ते पुष्पाणि, ग्रीष्मे तापः, वर्षास वष्टिः इत्यवाधितप्रतीतिबलात् कालः कारणमित्युक्तम् । तत्र क्रियानिरपेक्षस्य स्वरूपसत एव हि कालस्य कारणत्वं विवक्षितम् । अतः निष्क्रिय एव कालः कारणमिति स्थितम् । दिक्कालयोः स्वातिरिक्ततत्तद्रव्यगतपरत्वापरत्वकारणं निष्क्रिययोः कथं भवतीति स्वरसतः शङ्का भवतीति कृत्वा निष्क्रिययोरेव तयोः कारणत्वं सम्भवती. त्युक्तम् । आकाशस्य "दिक्कालावकाशं व क्रियावद्वैधानिष्क्रियाणि" इति निष्क्रियत्वेनोक्तस्य द्रव्यान्तरगतक्रियाधीनसंयोगविभागशब्दकारणकशब्दसमवायित्वेनानुमीयमानस्य "निक्रियस्य तस्य कथं शब्दाश्रयत्वम्" इति शङ्का नैवोदेतीति नास्याः परिहारं करोति सूत्रकारः। इमं विशेषमभिप्रेत्यैव "दिक्कालाकाशानि" इति समासमकृत्वा "आकाशं च" इति पृथङ् निर्देश इति विभाव्यम् । __ इति वैशेषिकसूत्रवृत्तौ सुगमायां पञ्चमाध्याये द्वितीयमाह्निकम्

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154