Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 115
________________ ६४] वैशेषिकसूत्रवृत्ती २६६. कारणगुणपूर्वकाः पृथिव्यां पाकजाः ॥ ६॥ एवं रूपादीनां चतुर्णा गुणानां नित्यानित्यभेदेन विभाग उक्तः । भनित्यद्रव्यगतानां तेषां अनित्यत्वेनः साधम्यं, पृथिवीतरपरमाणुगतानां नित्यत्वेन साधय, चोक्तम् । एतेन अबादित्रितयपरमारणगतानां पृथिवीपरमारणगतानां च नित्यत्वानित्य, त्वाभ्यां वैधर्म्यमपि ज्ञापितम् । अथानित्यद्रव्यगतानां एषामुभयेषां पाकजत्वापाकज-- त्वाम्या वैधय॑माह २६७.. एकद्रव्यत्वात् ॥ ७ ॥ रूपादीनां कार्य द्रव्यवतिना कारणगुणपूर्वकत्वं पूर्वमुक्तम्- "कारणगुणपूर्वकः कार्यगुणो दृष्टः' इति । इदं कारणगुणपूर्वकत्वं पार्थिवादिषु चतुर्वपि कार्यद्रव्येषु स्थितानां रूपादीनां समानम् । साधय॑मिति यावत् । किन्तु पार्थिवकार्यद्रव्यवतिन इमे पाकजाः । इतरे न पाकजा इति वैधर्म्यमप्यस्तीति भावः । पाकजत्वं परमाणगुण-- द्वारा बोध्यम् ।। ननु अनित्यानि द्रव्याणि सन्ति । तत्रत्या गुणाः रूपादयः कारणगुणपूर्वका इति यदुच्यते तन्न युक्तम् । कार्यस्य मरणसङ्घातरूपत्वेन अनित्यद्रव्यान्तराभावात् । द्रव्यान्तरस्यैवाभावे तत्र गुणान्तराप्रसक्तया तेषां कारणगुणपूर्वकत्वोक्तेरयोगात् इति चेदत्राह एक द्रव्यं प्राश्रयभूतं यस्य तस्य भावः, तस्मात् । रूपं अन्यो वा विशेषगुणः एकैकस्मिन् परमाणौ वर्तते । न त्वनेकस्मिन् व्यासज्य । अत इमे एकद्रव्या इति निश्चितम् । घटो रूपवानित्यत्र एकमेव रूपं भासते । तस्य चाश्रयेण एकेन भाव्यम् । अतो न परमाणसङ्घातमात्रात्मा घटः । मपि तु तैरारब्धं द्रव्यान्तरमेकम् । तदीयमेकरूपं च. अवयवरूपेभ्योऽन्यत् । तच्च अवयवगुणकरणकमेवेति युक्त कारणगुणपूर्वकत्वं अवयविरूपादीनामिति ॥ प्रवमनिर्दिष्टाः रूपादयश्चत्वारो गुणा निरूपिताः । अथः सङ्ख्यानिरूपण प्राप्तम् । तथाऽपि सङ्ख्यायाः एकपृथक्त्वं द्विपृथक्त्वमित्यादिव्यवहारेषु पृथक्त्वविशेषण-- तया तत्सम्बद्धत्वेन प्रतीतेः तन्निरूपणात् पूर्व तां निरूपयितुमिच्छन् सम्प्रतिः परिमाणनिरूपणं प्रक्रमते । तत्र प्रथमं तद्विषये पूर्वं यदुक्त तत् स्मारयति २६८. अणोर्महतश्लोपलब्ध्यनुपलब्धी नित्ये व्याख्याते ।। ८ ।। उपलब्धिपदस्य अल्पान्तरत्वात् पूर्वनिपातः । अणोरनुपलब्धिः प्रत्यक्षाभावः, महत उपलब्धिश्च नित्ये नित्यद्रव्य साधके चतुर्थाध्याये प्रथमाह्निके 'महत्यनेकद्रव्यवत्त्वात्' इयादिना सूत्रद्वयेन प्रतिपादिते इत्यर्थः।।

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154