Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 116
________________ सप्तमेऽध्याये प्रथममाह्निकम् [१५ एवं अण प्रमाणं महत्प्रमाणं चोपस्थाप्य तद्विषये यदत्र विवक्षितं तदाह२६६. कारणबहुत्यात् कारणमहत्त्वात् प्रचयनिशेषाच्च महत् ॥६॥ कारणबहुत्त्वात् कायं महत् भवति। महत्परिमाणवद् भवतीत्यर्थः । त्रिमिद्वर्यणुकैः आरब्धे त्यणके महत्परिमाणं आरम्भकाणां द्वयणकानां त्रित्वरूपेण बहुत्वेन जायते । न तत्र कारणमहत्त्वं वा प्रचयविशेषो वा कारणम् । द्वाभ्यां तन्तुभ्यामारब्धे पटे महत्परिमाणं कारणगतमहरिमाणेनैव जायते । न तु कारणबहुत्वात् प्रचय विशे. षाद्वा । त्रिप्रभृतिभिस्तन्तुभिरारब्धे पटे तु तज्जनने उभयोः कारणयोः सन्निपातः । कारणबहुत्वस्य तन्महत्त्वस्य च । अथवा कारणबहुत्वमन्यथासिद्धम् । तन्महत्त्वमेव कारणम् । पीडनादिना धनीभूतस्य तूल पिण्डस्य प्रारम्मकाणां अवयवानां यदा हस्ताम्यां व्यासः क्रियते तदा तेषां प्रचय विशेषो भवति । शिथिलः संयोग इत्यर्थः । तदानीं तस्य पिण्डस्यावयविनः परिमारणं च महद् भवति । न तत्र कारणबहुत्वं वा महत्त्वं वा कारणम् । पूर्वमपि तयोः स्थितत्वात् । तदानीं तदुत्पादनाभावात् । यदा तु प्रचयवदवयवारब्धाभ्यां तूल पिण्डाभ्यां तादृशस्तूल पिण्डैर्वा महत्तरपिण्डारम्भः तदा तत्रत्यस्य महत्त्वस्य अवयवमहत्त्वमेव कारणम् । न तु प्रचयः । अन्वयव्यतिरेकाभावात् ॥ २७०. अतो निपरीतमणु ॥ १०॥ यत् उक्तैः कारणर्न जन्यते तत्परिमाणं अणु । अतः उक्तकारणजन्यात् परिमाणात् विपरीतं उक्तकारणाजन्यत्वात् नियमेन तद्वयधिकरणं परिमाणमण्विति सूत्रस्याक्षरार्थः । परमाणो द्वयणके च उक्तकारणाजन्यत्वादणपरिमाणम् । अन्यत्र सर्वत्र महत् ॥ शङ्काविशेष परिहरनाह२७१. अणु महदिति तस्मिन् निशेषमानाद् विशेषा भावाच्च ॥ ११॥ तस्मिन् एकस्मिन् वस्तुनीत्यर्थः। प्रण महदिति उभयथा व्यवहारोऽस्ति । तत्र यदुक्तं परिमारणद्वयं नियमेन व्यधिकरणमिति तन्न युज्यते । अत्रोच्यते । सत्यमेवं अण्विति प्रती तिव्यवहारविषय एव वस्तुनि महदिति प्रतीतिव्यवहारी स्तः । तथा महदिति प्रतीतिवयवहारविषय एव वस्तुनि अण्विति प्रतीतिव्यवहारौ । तथापि अनयोः परिमाणयोः वैयधिकरण्यनियमोक्तिनं विरुध्यते । न हि वस्तुतः अणो महति च वस्तुतः महत्त्वमणत्वं चास्ति, इति कृत्वा एवं प्रतियन्ति व्यवहरन्ति वा । अपि तु

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154