________________
सप्तमेऽध्याये प्रथममाह्निकम्
[१५ एवं अण प्रमाणं महत्प्रमाणं चोपस्थाप्य तद्विषये यदत्र विवक्षितं तदाह२६६. कारणबहुत्यात् कारणमहत्त्वात् प्रचयनिशेषाच्च
महत् ॥६॥ कारणबहुत्त्वात् कायं महत् भवति। महत्परिमाणवद् भवतीत्यर्थः । त्रिमिद्वर्यणुकैः आरब्धे त्यणके महत्परिमाणं आरम्भकाणां द्वयणकानां त्रित्वरूपेण बहुत्वेन जायते । न तत्र कारणमहत्त्वं वा प्रचयविशेषो वा कारणम् । द्वाभ्यां तन्तुभ्यामारब्धे पटे महत्परिमाणं कारणगतमहरिमाणेनैव जायते । न तु कारणबहुत्वात् प्रचय विशे. षाद्वा । त्रिप्रभृतिभिस्तन्तुभिरारब्धे पटे तु तज्जनने उभयोः कारणयोः सन्निपातः । कारणबहुत्वस्य तन्महत्त्वस्य च । अथवा कारणबहुत्वमन्यथासिद्धम् । तन्महत्त्वमेव कारणम् । पीडनादिना धनीभूतस्य तूल पिण्डस्य प्रारम्मकाणां अवयवानां यदा हस्ताम्यां व्यासः क्रियते तदा तेषां प्रचय विशेषो भवति । शिथिलः संयोग इत्यर्थः । तदानीं तस्य पिण्डस्यावयविनः परिमारणं च महद् भवति । न तत्र कारणबहुत्वं वा महत्त्वं वा कारणम् । पूर्वमपि तयोः स्थितत्वात् । तदानीं तदुत्पादनाभावात् । यदा तु प्रचयवदवयवारब्धाभ्यां तूल पिण्डाभ्यां तादृशस्तूल पिण्डैर्वा महत्तरपिण्डारम्भः तदा तत्रत्यस्य महत्त्वस्य अवयवमहत्त्वमेव कारणम् । न तु प्रचयः । अन्वयव्यतिरेकाभावात् ॥
२७०. अतो निपरीतमणु ॥ १०॥
यत् उक्तैः कारणर्न जन्यते तत्परिमाणं अणु । अतः उक्तकारणजन्यात् परिमाणात् विपरीतं उक्तकारणाजन्यत्वात् नियमेन तद्वयधिकरणं परिमाणमण्विति सूत्रस्याक्षरार्थः । परमाणो द्वयणके च उक्तकारणाजन्यत्वादणपरिमाणम् । अन्यत्र सर्वत्र महत् ॥
शङ्काविशेष परिहरनाह२७१. अणु महदिति तस्मिन् निशेषमानाद् विशेषा
भावाच्च ॥ ११॥ तस्मिन् एकस्मिन् वस्तुनीत्यर्थः। प्रण महदिति उभयथा व्यवहारोऽस्ति । तत्र यदुक्तं परिमारणद्वयं नियमेन व्यधिकरणमिति तन्न युज्यते । अत्रोच्यते । सत्यमेवं अण्विति प्रती तिव्यवहारविषय एव वस्तुनि महदिति प्रतीतिव्यवहारी स्तः । तथा महदिति प्रतीतिवयवहारविषय एव वस्तुनि अण्विति प्रतीतिव्यवहारौ । तथापि अनयोः परिमाणयोः वैयधिकरण्यनियमोक्तिनं विरुध्यते । न हि वस्तुतः अणो महति च वस्तुतः महत्त्वमणत्वं चास्ति, इति कृत्वा एवं प्रतियन्ति व्यवहरन्ति वा । अपि तु