________________
६४]
वैशेषिकसूत्रवृत्ती २६६. कारणगुणपूर्वकाः पृथिव्यां पाकजाः ॥ ६॥
एवं रूपादीनां चतुर्णा गुणानां नित्यानित्यभेदेन विभाग उक्तः । भनित्यद्रव्यगतानां तेषां अनित्यत्वेनः साधम्यं, पृथिवीतरपरमाणुगतानां नित्यत्वेन साधय, चोक्तम् । एतेन अबादित्रितयपरमारणगतानां पृथिवीपरमारणगतानां च नित्यत्वानित्य, त्वाभ्यां वैधर्म्यमपि ज्ञापितम् । अथानित्यद्रव्यगतानां एषामुभयेषां पाकजत्वापाकज-- त्वाम्या वैधय॑माह
२६७.. एकद्रव्यत्वात् ॥ ७ ॥
रूपादीनां कार्य द्रव्यवतिना कारणगुणपूर्वकत्वं पूर्वमुक्तम्- "कारणगुणपूर्वकः कार्यगुणो दृष्टः' इति । इदं कारणगुणपूर्वकत्वं पार्थिवादिषु चतुर्वपि कार्यद्रव्येषु स्थितानां रूपादीनां समानम् । साधय॑मिति यावत् । किन्तु पार्थिवकार्यद्रव्यवतिन इमे पाकजाः । इतरे न पाकजा इति वैधर्म्यमप्यस्तीति भावः । पाकजत्वं परमाणगुण-- द्वारा बोध्यम् ।।
ननु अनित्यानि द्रव्याणि सन्ति । तत्रत्या गुणाः रूपादयः कारणगुणपूर्वका इति यदुच्यते तन्न युक्तम् । कार्यस्य मरणसङ्घातरूपत्वेन अनित्यद्रव्यान्तराभावात् । द्रव्यान्तरस्यैवाभावे तत्र गुणान्तराप्रसक्तया तेषां कारणगुणपूर्वकत्वोक्तेरयोगात् इति चेदत्राह
एक द्रव्यं प्राश्रयभूतं यस्य तस्य भावः, तस्मात् । रूपं अन्यो वा विशेषगुणः एकैकस्मिन् परमाणौ वर्तते । न त्वनेकस्मिन् व्यासज्य । अत इमे एकद्रव्या इति निश्चितम् । घटो रूपवानित्यत्र एकमेव रूपं भासते । तस्य चाश्रयेण एकेन भाव्यम् । अतो न परमाणसङ्घातमात्रात्मा घटः । मपि तु तैरारब्धं द्रव्यान्तरमेकम् । तदीयमेकरूपं च. अवयवरूपेभ्योऽन्यत् । तच्च अवयवगुणकरणकमेवेति युक्त कारणगुणपूर्वकत्वं अवयविरूपादीनामिति ॥
प्रवमनिर्दिष्टाः रूपादयश्चत्वारो गुणा निरूपिताः । अथः सङ्ख्यानिरूपण प्राप्तम् । तथाऽपि सङ्ख्यायाः एकपृथक्त्वं द्विपृथक्त्वमित्यादिव्यवहारेषु पृथक्त्वविशेषण-- तया तत्सम्बद्धत्वेन प्रतीतेः तन्निरूपणात् पूर्व तां निरूपयितुमिच्छन् सम्प्रतिः परिमाणनिरूपणं प्रक्रमते । तत्र प्रथमं तद्विषये पूर्वं यदुक्त तत् स्मारयति
२६८. अणोर्महतश्लोपलब्ध्यनुपलब्धी नित्ये व्याख्याते ।। ८ ।।
उपलब्धिपदस्य अल्पान्तरत्वात् पूर्वनिपातः । अणोरनुपलब्धिः प्रत्यक्षाभावः, महत उपलब्धिश्च नित्ये नित्यद्रव्य साधके चतुर्थाध्याये प्रथमाह्निके 'महत्यनेकद्रव्यवत्त्वात्' इयादिना सूत्रद्वयेन प्रतिपादिते इत्यर्थः।।