________________
६६ ]
वैशेषिकसूत्रवृत्ती भणी महत्त्वप्रतीतिव्यवहारयोः अस्ति विशेषः अपेक्षारूपः । चन्दनपरमाणः मृत्परमाण्वपेक्षया महानित्युच्यते । तदिदं महत्त्वं आपेक्षिकं प्रौपचारिकम् । अपेक्षारूपमिमं विशेषं विना स्वभावतोऽणुत्वं मुख्यं तस्य । न च मुख्यौपचारिकयोरणत्वमहत्त्वयोविरोधोऽस्ति येन वैयधिकरण्यनियममङ्गो भवेत् । एवमेव स्वयं महति बदरीफले नारिकेलापेक्षया अणुत्वप्रतीतिव्यवहारौ सापेक्षौ । महत्त्वप्रतीतिव्यवहारौ तु निरपेक्षाविति तत्रापि विशेषभावः विशेषाभावश्च बोध्यः ।
ननु किमेवं मुख्यौपचारिकभावेन विरोधपरिहारः क्रियते । प्रथमं अणु पश्चान्महत् । अतो न विरोध इति कुतो नोच्यत इत्यत्राह---
२७२. एककालत्वात् ॥१२॥
अरणत्वे सत्येव महत्त्वं, महत्वे सत्येव अणुत्वं च किल व्यवहरन्ति । न चेदं एक कालिकत्वं एकस्मिन् वस्तुनि मुख्ययोरणुत्वमहत्त्वयोः सम्भवति ।
२७३. दृष्टान्ताच्च ॥१३॥
अस्ति च दृष्टान्तः यत्र मिथो विरुद्धयोः द्वयोधर्मयोर्व्यवहारः क्रियते, ययोरेको मुख्यः अन्य औपचारिकः; स च मुखं चन्द्रः, अग्निर्माणवकः इत्यादिः । अत्र हि मुखत्वं माणवकत्वं च मुख्यम् । चन्द्रत्वं अग्नित्वं च औपचारिकम् ।। २७४. अणुत्वमहत्त्वयोरणुत्वामहत्त्वाभावः कर्मगुणैर्व्याख्यातः
॥१४॥ मणु महदित्यनयोः विजातीययोद्धयोः परिमाणयोः यत्र वस्तुतः एकमस्ति तत्र अपरपरिमाणव्यवहारः प्रापेक्षिकः औपचारिक इत्युक्तम् । तेन वस्तुतः तत्र परिमाणान्तरस्याभाव एवेत्युक्त भवति । इदानीं अनयोः परिमाणयोः सजातीयं विजातीयं वा परिमाणान्तरं नास्ति । अतः अण्वणु, महाणु, अणुमहत्, महामहदिति व्यवहाराः, प्रौपचारिकतया नेयाः,इत्यभिप्रेत्य तयोस्तदभावमाह । अणुत्वे अणुत्वमहत्त्वयोः, महत्त्वे च तयोः अभावः कर्मगुणः ध्याख्यातो भवति । ज्ञापितो भवतीति यावत् । "एकद्रव्यमगुणं" इति कर्मणि गुणाभाव उक्तः । 'द्रव्याश्रय्यगुणवान्' इति गुणे गुणाभाव उक्तः । तेनैव अणुत्वमहत्त्वयोः अणुत्वमहत्त्वरूपगुणाभावः ज्ञापितो भवतीति भावः । ननु गुणे गुणाभावस्य पूर्वमुक्तत्वात् अणुत्वादेर्गुणस्य अणुत्वादिगुणवत्त्वं नास्तीति कामं ज्ञापितं भवति । कर्मणि गुणाभावोक्तया तु कथं तद् ज्ञापितं भवेत् । उच्यते । अनन्तरसूत्रे तद् व्यक्त भविष्यति ॥