________________
सप्तमेऽध्याये प्रथममाह्निकम्
[६७ २७५. कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः ॥१५॥
कर्मभिः कर्माणि व्याख्यातानि निरूपितानि भवन्ति । कथमिति । नि ?णानीति । कस्मात् । तानि हि कर्माणि 'क्रियावद् गुणवत् समवायि कारणमिति द्रव्य लक्षणम्' इति द्रव्यलक्षणभूतानि स्वयं अद्रव्यारिण। न चाद्रव्याणि गुणवन्ति भवन्ति । गुणानामपि द्रव्यलक्षणत्वात् अद्रव्यत्वम् । एवमद्रव्यभूतः कर्मभिः कर्माणि निर्गुणतया ज्ञापितानि भवन्ति । गुणश्च गुणाः । एवञ्च पूर्वसूत्रे कर्मगुरण रद्रव्यैः अणुत्वमहत्त्वे अद्रव्यतया अणुत्वमहत्त्वरूपगुणरहिते इति ज्ञापिते भवतः इति विवक्षितत्त्वान्नोक्तशङ्कावकाश इति भावः।
२७६. अणुत्वमहत्त्वाभ्यां कर्म गुणाश्च व्याख्याताः॥१६॥
यथा कर्मगुणैः अणत्वमहत्त्वे अणुत्वमहत्त्वाभाववत्तया व्याख्याते भवतः तथा कर्मगुणा अपि अरणत्वमहत्त्वाभ्यां अगत्वमहत्त्वाभाववत्तया व्याख्याता भवन्तीत्यर्थः । अद्रव्यत्वेन गुणसामान्य शून्यत्वादेवमिति भावः । कर्मणां गुणानां च गुणानाधारत्वप्रतिपत्तिदाढर्याय इत्थं पुन. पुनः भङ्गयन्तरेणोक्तिरिति ज्ञेयम् ॥
२७७. एतेन दीर्घत्वह्रस्वत्वे व्याख्याते ॥१७॥
अणुन्वमहत्त्वनिरूपणेनव दीर्घत्वह्रस्वत्वरूपे अपि परिमाणे निरूपिते भवत इत्यर्थः । दीर्घमेव वस्तु दीर्घतरवस्त्वन्तरापेक्षया ह्रस्वमिति व्यवह्नियते । तत्र दीर्घत्वं मुख्यम् । ह्रस्वत्वं तु प्रौपचारिकमिति ज्ञेयमिति भावः । महदेव दीर्घ भवति, नामहत् । तत्र गोलाकारस्य वस्तुनः कन्तुकादेः महत्त्वेऽपि दीर्घत्वव्यवहाराभावात् महत्त्वादन्यद् दीर्घत्वम् । तत्र महत्त्वस्य कारणमुक्तम् । दीर्घत्वस्य तु दिगन्तरद्वयापेक्षया दिगन्तरद्वये विद्यमानावयवाधिक्यं कारणम् ।
एकस्याणोः पार्श्व अपरोऽणुः तस्य पाव' अपरोऽणुः इत्येवमवस्थितः त्रिभिरधिकर्वा अणुभिरारब्धं द्रव्यं मुख्यवृत्त्या दीर्घ मवति । इहाणुरिति द्वयणक विवक्षितम् । द्वयणुकं केवलं ह्रस्वम् । अन्यत्र सर्वत्र ह्रस्वत्वव्यवहारः आपेक्षिकः । औपचारिकः।
नित्यानित्यभेदेन परिमाणविभागमभिप्रेत्य अनित्येषु द्रव्येषु अनित्यपरिमाणमस्तीत्याह
२७८. अनित्येऽनित्यम् ॥ १८ ॥
अनित्य आश्रयः घटादिः यदा नश्यति तदा तदीयं परिमाणमपि नश्यति । अता तदनित्यम् ॥