Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 114
________________ पूर्वतोऽनुवर्तमाना सुगमाभिधा वैशेषिकसूत्रवृत्तिः डी. टी. ताताचार्यकृता अथ सप्तमेऽध्याये प्रथममाह्निकम् २६१. उक्ता गुणाः॥१॥ द्रव्यगुणकर्मसु गुणेभ्यः परं निर्दिष्टस्यापि कर्मणः हेतुविशेषेण तेभ्यः पूर्वमेव निरूपणं कृतम् । प्रथाद्य गुणा निरूप्यन्ते । तत्र के गुणा इत्याकांक्षायां उक्ता एव ते पूर्व "रूपरसगन्धस्पर्शाः" १-१-६ इत्यादिनेत्येतदत्रोच्यते । २६२. पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च ॥२॥ प्रथमं आद्यानां चतुर्णा गुणानां नित्यत्वानित्यत्वे उच्यते । ते अनित्याः। कस्मात् । द्रव्यानित्यत्वात् । पाश्रयद्रव्यनाशादेते नश्यन्ति । अतोऽनित्या इत्यर्थः। अनित्याश्चति चकारेण समुच्चितं नित्यत्वं सहेतुकमाह-. २६३. एतेन नित्येषु नित्यत्वमुक्तम् ॥३॥ एतेन द्रव्यानित्यत्वहेतुकानित्यत्वोक्त्या नित्येषु एषु द्रव्येषु विद्यमानानां रूपादीनां गुणानां नित्यत्वमुक्तमिति भावः । पाश्रय नित्यत्वे हि एपामनित्यत्वं भवेत् । तदभावात् नित्येषु एषु द्रव्येषु विद्यमाना एते गुणा नित्या एव भवन्ति, न त्वनित्या इति । तत्र विशेषमाह २६४. अप्सु तेजसि नायौ च नित्याः द्रव्यनित्यत्वात् ॥४॥ द्रव्यनित्यवाद् यन्नित्यत्वमुक्त तत् अप्तेजोवाय्वात्मकभूतत्रयसम्बन्धिनित्यद्रव्येषु-परमाणुषु-विद्यमानानां रूपादीनामेव । न तु पृथिवीपरमाणषु नित्येषु स्थितानाम् । तेषामनित्यत्वं वक्ष्यते ।। पृथिव्यादिचतुष्टयानित्यद्रव्यगतरूपादीनां अनित्यत्वं पूर्वोक्त स्मारयति२६५. अनित्येष्ननित्या द्रव्यानित्यत्वात् ॥५॥ पूर्वसूत्रोक्त द्रव्यनित्यत्वहेतुकं रूपादिनित्यत्वं प्रबादिषु त्रिष्वेव । न तु पृथिव्याम् । द्रव्यानित्यत्वहेतुक्रमनित्यत्वं तु चतष्वपि द्रव्येष्विति भावः ।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154