________________
वैशेषिकसूत्रवृत्ती
क्रियारहिता गुणाः यथा कारणं भवन्ति तथव दिगपि क्रियारहित व परत्वापरत्वे प्रति कारणं भवतीति ज्ञयमिति भावः ।
२२८. कारणेन कालः ।। २७ ॥
व्याख्यात इति विपरिणतमनुषज्यते । क्रियारहित एव कारणमिति ज्ञापित इति तदर्थः । कारणेन “नित्येष्वभावाद नित्येषु भावात् कारणे कालाख्या" इति कालः कारणमिति वदता सूत्रेणेत्यर्थः।
__ वसन्ते पुष्पाणि, ग्रीष्मे तापः, वर्षास वष्टिः इत्यवाधितप्रतीतिबलात् कालः कारणमित्युक्तम् । तत्र क्रियानिरपेक्षस्य स्वरूपसत एव हि कालस्य कारणत्वं विवक्षितम् । अतः निष्क्रिय एव कालः कारणमिति स्थितम् ।
दिक्कालयोः स्वातिरिक्ततत्तद्रव्यगतपरत्वापरत्वकारणं निष्क्रिययोः कथं भवतीति स्वरसतः शङ्का भवतीति कृत्वा निष्क्रिययोरेव तयोः कारणत्वं सम्भवती. त्युक्तम् । आकाशस्य "दिक्कालावकाशं व क्रियावद्वैधानिष्क्रियाणि" इति निष्क्रियत्वेनोक्तस्य द्रव्यान्तरगतक्रियाधीनसंयोगविभागशब्दकारणकशब्दसमवायित्वेनानुमीयमानस्य "निक्रियस्य तस्य कथं शब्दाश्रयत्वम्" इति शङ्का नैवोदेतीति नास्याः परिहारं करोति सूत्रकारः। इमं विशेषमभिप्रेत्यैव "दिक्कालाकाशानि" इति समासमकृत्वा "आकाशं च" इति पृथङ् निर्देश इति विभाव्यम् ।
__ इति
वैशेषिकसूत्रवृत्तौ सुगमायां पञ्चमाध्याये द्वितीयमाह्निकम्