________________
अथ षष्ठाध्याये
प्रथममाह्निकम् लौकिकक्रियारूपं कर्म निरूपितम् । अथ वैदिकक्रियारूपं तन्निरूप्यते । तत्र वेदप्रामाण्यसिद्धये तत्कर्तुराप्तत्वं वश्यन् प्रथमं तस्य कर्तृ मत्त्वं सावयति
२२९. बुद्धिपूर्वा वाक्यकृति वंदं ।। १॥
लौंकिकस्य अस्मदादिप्रत्यक्षस्य एतन्मूलकस्यानुमानस्य च अगोचरो योऽर्थः तद्वोधकः ऋग्यजुःसामाथवभेदेन विभज्यमानः शब्दराशिर्वेदः। तत्र यानि वाक्यानि सन्ति तानि मर्वाणि केनचित् कैश्चिद्वा कर्तृभिः कृतानीति वक्तव्यम् । रामायणमहाभारतादिवाक्यवत् । न हि वक्तारं पुरुषं विना लोके किञ्चन वाक्यं दृश्यते । अशरीरिणी वागस्तीति चेत् सत्यम् । न तु अवक्तृका वागस्ति । तत्रापि अदृश्यस्य वक्त रवश्यम्भावात् । वाक्यानां कर्ता च सः, यः तदर्थवोधवान् । पाहुहि अर्थ बुवा शब्दरचनेति । अनेन वाक्यरचनां प्रति वस्तद्वाक्यार्थबोधः कारणमित्युक्तं भवति । अनया व्याप्त्या वेदवाक्यरचनाऽपि तदर्थबोधपूविकेति सिद्धयति । इदमुच्यते-'बुद्धिपूर्वा वाक्यकृतिर्वेदे' इति । बुद्धिोष , स च वाक्यार्थविषय इत्याल्लभ्यते । न च बुद्धिर्बोद्धारं विनेति कर्तृ सिद्धिः।
एवमनुमानात् सिद्धस्य वेदकर्तुराप्तत्वं साधयति२३०. ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् ॥२॥
मन्त्री ब्राह्मणमिति वेदस्य द्वौ भागौ । तत्र ब्राह्मणभागे अलौकिकानां कर्मणां अन्येषां च स्वर्गनरकादिरूपाणां अर्थानां संज्ञाः दृश्यन्ते । संज्ञाश्च "प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः" इति पूर्वोक्तरीत्या तदर्थसाक्षात्कारसमर्थ रेव कृता भवितुमर्हन्ति । अतः ब्राह्मणे दृश्यमाना याः अलौकिकानामर्थांनां संज्ञाः तासां कर्म क्रिया, तत्कर्तृणां, तत्करणपूर्वकं ता उपयुज्य वेदवाक्यानि रचितवतां पुरुषाणां, सिद्धौ अतीन्द्रियार्थसाक्षाकारसामर्थ्य, लिङ्गप्रमाणं भवति । तथा च अनेन लिङ्गन अवगतशक्तिविशेषाणां वेदकर्तृणां वेदवाक्यरचनहेतुभूतं ज्ञानं प्रमात्मकमेवेति तेषां यथार्थदर्शित्वरूपं आप्तत्वं निश्चीयते। अतस्तत्कृतस्य वेदस्य प्रामाण्यं निविधातमिति भावः ।
एवं वेदप्रामाण्यं प्रसाध्य अथाद्य तत्प्रमेयं धर्ममाह२३१. बुद्धिपूर्वो ददातिः ॥ ३ ॥