________________
म
वैशेषिकसूत्रवृत्ती दानार्थकधातुवाची ददातिशब्दः अत्र दद्यादिति दानविधिमाह । सः बुद्धिपूर्वः, "दाने कृते इदं फलं भवति । अतः एतत्फलकामैः दान कर्तव्यम् । तच्च एवं कर्तव्यम् ।" इति बुद्धिपूर्वकः । अनया बुद्धया वेदकर्ता दानविधि वेदे निबद्धवानित्यर्थः । एवं विहितं दानं "अभ्युदयसाधनतया" वेदेन बोधितत्वात् “यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः' इत्युक्तलक्षणाक्रान्तं भवतीति धर्मपदवाच्यं भवति ।
__ अध्ययनं इज्या दानमिति धर्म स्त्रिविधः । वेदबोधितः । तत्र अध्ययनं वेदग्रहणधारणार्यतया दृष्टफलमिति स्पष्टम् । कालान्तरानुभाव्यस्वर्गादिफला इज्या अदृष्टफलेत्यपि स्पष्टम् । अतो धर्मानुष्ठानप्रथमसाधनशरीरधारणोपयुक्तदानप्रतिग्रहविषये किञ्चित् वक्त कामः प्रथमं दानस्य धर्मत्वं अत्राब्रवीदिति ज्ञयम् ।
२३२. तथा प्रतिग्रहः ॥४॥
परेण दीयमानस्य स्वीकरणं प्रतिग्रहः, सोऽपि तथा बुद्धिपूर्वः । प्रतिग्रहः कदा कस्मात् कथं कर्तव्य इति बोधपूर्वकं निबद्ध इति भावः । यथाविधि क्रियमाणः प्रति: ग्रहो धर्मो भवति । अन्यथा नेत्युक्तं भवति । दानेऽप्येतदनुसन्धेयम् ।
२३३. प्रात्मान्तरगुणानामात्मान्तरगुणवहेतुत्वात ॥५॥
प्रतिग्रहं विना दानस्यानिष्पत्त्या दानान्तर्भूत एव प्रतिग्रहः। तत् कथमस्य दानापेक्षया पृथक् धर्मत्वमिति शङ्कापरिहारार्थमिदं सूत्रम् । सत्यं दानं केनचित् क्रियमाणं परेण क्रियमाणं प्रतिग्रहमपेक्षते । न तु तावता दानांशः प्रतिग्रहः । दानं हि नाम वस्तुनि स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनम् । अस्मा इदं न मम, इति ज्ञानविशेषः । अयं दातृनिष्ठः। तनिष्ठफलजनकः । दात्रा स्वस्वत्वनिवर्तनपूर्वकं आपाद्यमानस्य परस्वत्वस्य "इदं वस्तु मदीयं भवतु" इति परेण क्रियमाणा अनुमतिः प्रतिग्रहः । अयमपि ज्ञानविशेषात्मा। परनिष्ठः तनिष्ठफलहेतुः । एवं दानभिन्नस्य दातृभिन्ननिष्ठगुणरूपस्य प्र-िग्रहस्य दातृनिष्ठफल विशेषात्मकगुणहेतुत्वाभावात् प्रतिग्रहीतृनिष्ठफलजनकत्वाच्च दानात् पृथधर्मत्वमवश्यं वाच मिति भावः ।
सूत्रे प्रथमः आत्मान्तरशब्दः प्रतिग्रहीतृपरः । द्वितीयः दातृपरः । आत्मान्तरगतं ज्ञानं इच्छा अदृष्टं वा यात्मान्तरगताया इच्छायाः प्रवृत्तेः सुखादेर्वा हेतुर्न भवति । तथा प्रकृतेऽपीति दृष्टान्तज्ञापनाय गुणानां गुणेष्विति बहुवचनम् ।
२३४, तद् दुष्टभोजने न विद्यते ॥६॥ ___ अभ्युदयसाधनतया धर्मभूतस्य दानस्य इतरस्माद् विविच्य बोधाय इतरद् दर्शयति अनेन सूत्रेण । तद् उक्तविधबुद्धिपूर्वकत्वं, दुष्टस्य पुरुषस्य भोजने, णिजन्तात् ल्युटि इदं रूपम् । आशने इत्यर्थः । दुष्टाय अन्नदाने इत्युक्त भवति । न विद्यते नास्ति । दुष्टाय क्रियमाणं अन्नदानं न धर्मः । अदुष्ट सम्प्रदानकस्यैव दानस्य उक्त विधवेद