________________
पष्ठाध्याये प्रथममाह्निकम् कर्तबुद्धिपूर्वक वेन धर्मत्वादिति भावः । अत्र भोजामिति द्रव्यान्तरदानानामप्युगलक्षणम् ।
को दुष्ट इत्यत्राह२३५. दुष्टं हिंसायाम ॥ ७ ॥
हिंसायां सत्यां तस्या हिसायाः कर्तारं पुरुषं दुष्टं विजानीयात् । तराय भोजनं न धर्मः । नाभ्युदया।
ननु हिंसारहितः पुरुषो लोके दुर्लभ: । अन्ततः मशकपिपीलिकादिहिंसाया अवर्जनीयत्वात् । अत्राह
२३६. तस्य सममिव्याहारतो दोषः ॥ ८ ॥
हिंसाकारितया दुष्ट इत्यत्र दुष्ट इत्यनेन विवक्षितो यः पुरुषः तस्य समभिव्याहारतः संसर्गात् दोषः पातित्यं भवति । पातक्रिसंसर्गो हि पातित्यहेतुः । अतः यस्य संसर्गात् इतरस्य पातकं भवति तादृशः ब्रह्महत्यादिकरणात् पातकवान् कापुरुषः दुष्ट इतीहाभिप्रेतः । तस्य भोजनं नाभ्युदयहेतुः । न धर्म इति भावः ।
२३७. तददुष्टे न विद्यते ॥ ६ ॥
तत् “तद् दृष्टभोजने न विद्यते" इत्युक्त अबुद्धिपूर्वकत्वं तन्मूलकं अभ्युदयाहेतुत्वं वा अदुष्टे उक्तविघदुष्टमिन्ने भोक्तरि सति न विद्यते । तस्य भोजनस्य बुद्धिपूर्वकत्वं भवतीति भावः । “तददुष्टे विद्यते” इति नब्रहितः पाठः किमस्तीति युक्तमन्वेषणम् । अदुष्टेन भोक्त्रा तद्विद्यत इति योजनं यद्यपि सङ्गतं तथापि न स्वारसिकम् । दोषाभावमात्रेणापि पुरुषो दानयोग्यो भवतीति सूत्रकार इह विवक्षति ।
यद्यप्येवं तथापि गुणा अपि यत्र सन्ति स पात्रीकर्तव्य इत्याह२३८. पुनर्विशिष्टे प्रवृत्तिः ॥१०॥
पुनः किन्तु विशिष्टे स्वापेक्षयाऽपि अभिजनविद्यावृत्तादिभिः अधिके, उत्कृष्टे, पुरुषे प्रवृत्तिः दानविषयो यत्नः । कर्तव्येति शेषः।।
२३६. समे होने वा प्रवृत्तिः ॥११॥
विशिष्टस्यालाभे, आभिजात्यादिभिः स्वस्य समे सदृशे, होने अपकृष्टे वा प्रवृत्तिः कार्या । न तु अदुष्टलाभमात्रेण तृप्तिः कार्या । यथा यथा प्रतिग्रहीता गुणवान् तथा तथा दावस्य वीर्यवत्तरत्वादिति भावः । अत्र प्रवृत्तिरिति अनुषङ्गादेव लाभात् पुनः पाठः एतद्ज्ञापनार्थः । २४०. एतेन हीनसमविशिष्टधामि केभ्यः परत्वादानं व्याख्यातम,
॥१२॥