________________
८८
वैशेपिकसूत्रवृत्ती यथा दाने सम्प्रदानगुणेषु विवेकः कर्तव्यः तथा प्रतिग्रहे अपादानयुणेष्वपि विवेकः कार्य इत्याह । एतेन गुणवद्विषयक्रमनिरूपणेन । परस्वानां परकीयद्रव्याणां परैर्दीयमानानां आदानं ग्रहणं प्रतिग्रहः । व्याख्यातं ज्ञापितं भवति । कथम् । हीनसमविशिष्टधामिकेभ्य इति । वृत्तिकार्ये प्रतिग्रहो धर्म्यः । तत्र पतितात् प्रतिग्रहो दोषहेतुः । अदुष्टात् प्रतिग्रहे न कश्चन विशेषः । यदा तु धार्मिकेभ्यः गुणवद्भयः प्रतिग्नहः क्रियते तदा हीनधार्मिकात् प्रतिग्रहः प्रथमः कल्पः । मन्दधार्मिके हि तस्मिन् तस्य द्रव्यस्य उपयोगः न तथा प्रयोजनवान् यथा ततो विशिष्टे प्रतिग्रहीतरि । असति हीनोमिके समधार्मिकात् प्रतिग्नहोऽनुकल्पः । अस्मिन्नप्यसति विशिष्टधामिकात प्रतिग्रहः तस्याप्यनुकल्प इति ।
प्रतिग्रहे स्पर्धालुप्रसङ्ग कर्तव्यमाह२४१. तथा विरुद्धानां त्यागः ॥ १३ ॥
विरुद्धानां प्रतिग्रहे प्रतिबन्धमाचरतां दीयमानं द्रव्यं स्वयं लब्धुमिच्छतां, जनानां त्यागः निरासः तथा परस्वादानवत् व्याख्यातः । स्पर्धाप्रसङ्ग त्यागः कर्तव्यः । सोऽपि विवेकेन कर्तव्य इति भावः ।
विवेकं स्वयमेव दर्शयति२४२. होने परे त्यागः ॥ १४ ॥
परे विरोधिनि हीने स्वस्मादवरे सति तस्य त्यागः निवारणं, कर्तव्यम् । स्वस्मिन् हि दीयमानस्य वस्तुनः उपयोगः प्रयोजनवत्तरो भवेत् ॥
२४३. समे आत्मत्यागः परत्यागो वा ॥१५॥
विरोधिनि समे सति आत्मनो वा प्रतिग्रहात् निवर्तनं परस्य वेति विकल्पः । उभयत्र विशेषाभावात् ।
२४४. विशिष्टे प्रात्मत्याग इति ॥१६॥
विरोधिनि विशिष्टे सति प्रात्मनो निवर्तनम् । स विरोधी प्रतिग्रहीता कर्तव्यः । दीयमानं हि वस्तु तेनोपयुज्यमानं प्रयोजनवत्तरं भवेत् । इतिशब्दः दान प्रतिग्रहप्रकरणावसानबोधकः ॥
इति वैशेषिकसूत्रवृत्तौ सुगमायां पष्ठाऽध्याये प्रथममाह्निकम्