________________
अथ षष्ठाध्याये द्वितीयमाह्निकम् ॥
वैदिककर्मसामान्यं प्रति वक्तव्यं अस्मिन् आहिके उच्यते । २४५. दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय ॥१॥
वैदिकानि कर्माणि द्विविधानि । दृष्टप्रयोजनानि अदष्टप्रयोजनानि च । दृष्टं प्रत्यक्षावगतं प्रयोजनं नास्ति येषां तान्यदष्टप्रयोजनानि । अध्ययनं अक्षरराशिग्रहणार्थतया दृष्टप्रयोजनम् । नित्याग्निहोत्रादिकं अदृष्टप्रयोजनकम् । अदृष्टप्रयोजनानां कर्मणां वेदोपदिष्टानां तत एव हेतोः निष्प्रयोजन त्वं न मन्तव्यम् । प्रमाणभूतवेदोपदिष्टत्वात् तेषां दृष्टप्रयोजनविरहेपि अदृष्टं किञ्चित् प्रयोजनमस्तीति प्रत्येतव्यम् । किं तत् अदृष्टं प्रयोजनमिति चेत् यत् तानि अभ्युदयाय भवन्ति तत्प्रयोजनम् । अभ्युदयः कालान्तरे इह वा परत्र वा अनुभाव्यं सुखम् । दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमुच्यते । तानि अभ्युदयाय भवन ति सूत्रयोजना । प्रयोजनं प्रयोगः । अनुष्ठानमिति वा। ननु अदृष्टप्रयोजनानामित्येतावद्वक्तव्यम् । किं दृष्टादृष्टेत्य विकेन । उच्यते । दृष्टप्रयोजनेष्वपि पुनः प्रयोजनान्त रापेक्षाऽस्ति । यथा अध्ययनेन किमर्थमक्षरराशिग्रहणम् । पुस्तकपाठेनापि तत्सम्भवात्, इति । तत्राध्ययनेन तद्ग्रहणे अभ्युदयो भवतीति वक्तव्यम् । तदर्थ दृष्टेति ।।
अदृष्टप्रयोजनानि कानिचित् कर्माणि काश्चन नियमांश्च दर्शयति
२४६. अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानप्रोक्षणदिङनक्षत्रमन्त्रकालनियमाश्चादष्टाय ॥२॥
अभिषेचनं स्नानम् । अस्य मलापकर्षणार्थत्वेऽपि शास्त्रोक्तरीत्या करणं अदृष्टाय प्रयोजनाय । उपवासः शास्त्रचोदितं अनशनम् । ब्रह्मचर्य उपनीतस्य तदर्थविहितव्रतपरिपालनम् । गुरुकुलवासः तत्र वसना त्रियमाणा गुरुशुश्रूषा । नैष्ठिकब्रह्मचर्य वा । वानप्रस्थं कुटुम्ब मरं पुढेष्वर्पयित्वा वनमागत्य वसतां तदहधर्मपरिपालनम् । यज्ञाः दर्शपूर्णमासज्योतिष्टोमादयः देवेभ्यो द्रव्यत्यागरूपाः । दानं मनुष्येभ्यो द्रव्यत्यागः । प्रोक्षणं जलबिन्दुभिः संस्कारः। एतानि अदृष्टप्रयोजनानि ।।
शरीरसंस्कारः स्नानं प्रथममुक्तम् । ततो भोजनप्रसक्त्या तन्निवृत्तिरूप उपवासः । अथ आश्रमेषु प्रथमं ब्रह्मचर्य तत्सम्बन्धी गुरुकुलवासश्च । गहादन्यत्र वाससाम्यात् ततः परं वानप्रस्थम् । अथ गृहस्थकर्माणि यज्ञादीनीति निर्देशनमः । यज्ञदाने