________________
वैशेषिकसूत्रवृत्ती प्रधानकर्मणी। प्रोक्षणमङ्गम् । अथ नियमाः दिनियमः । प्राङ्मुख उदङ्मुखो वा उपविश्य आचामेदित्यादिः। नक्षत्रनियमः अस्मिन्नक्षत्रे इदं कर्म कर्तव्यमिति । यथा पुनर्वस्वोरादधीतेति । मन्त्रनियमः विहितमन्त्रेण स्मृत्वैव तत्तत्कर्म कर्तव्यमिति । कालनियमः सायं जुहोति, प्रातर्जुहोति, पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायां अमावास्यया यजेतेति । अभिषेचनोपवासयोः सन्न्यासिसाधारणत्वात्, सन्यासिनां गृहस्थादीनां यज्ञादिवत् विशिष्य वक्तव्यकर्म विशेषाभावात् सन्न्यासाश्रमस्य मोक्ष प्रधानतया अदृष्टार्थत्वस्य स्पष्टत्वाच्च तदीयं कर्म किमप्यत्र नोक्तमिति ज्ञेयम् ।
एवं वैदिकं कर्म दृष्टादृष्टप्रयोजनभेदेन द्वेधा विभज्य दर्शितम् । अथ उपधानुपधाभेदेन विभजति, उपधारूपं परित्याज्यमिति ज्ञापनाय
२४७. चातुरात्रम्यमुपधा अनुपधाश्च ॥ ३ ॥ __ चतुर्पु ब्रह्मचर्यादिषु प्राश्रमेषु स्थितानां कर्तव्यतया विहितानि कर्माणि उपधारूपाणि अनुपधारूपाणि च भवन्ति ।
उपधानुपधाशब्दो स्वयमेव व्याचष्टे२४८. भावदोष उपधाऽदोषोऽनुषधा ॥४॥
उपधाशब्देन भावदोषः प्रवृत्तिनिमित्ततया उच्यते । तदभावः अनुपधाशब्देन । तथा च पूर्वसूत्रे चतुराश्रमसम्बन्धीनि कर्माणि भावदुष्टानि भावदोपरहितानि, इति द्विविधानीति विवक्षितमिति भावः । भावः आशयः, अभिसन्धिः । अश्रद्धया सत्कारलाभपूजादिहेतोः क्रियमाणानि भावदुष्टानि । श्रद्धया भगवत्प्रीत्थं लोकक्षेमार्थं च क्रियमाणानि भावदोषरहितानि । पूर्वाणि अभ्युदयाय न भवन्ति । तस्मात् तानि न कर्तव्यानीति । यद्यपि अन्तिमाश्रमिणां यज्ञदानादिरूपं कर्म नास्ति ताऽपि भिक्षाचरणजपादिरूपं किञ्चित् अस्तीति चातुराश्रम्योक्तिः ॥
२४६. यदिष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छ चि ।। ५ ।।
इष्टाः प्रियाः अनुभाव्याः रूपादयः यस्य तद् वस्तु इष्टरूपरसगन्धस्पर्शम् । यद्वस्तु ईदृशं प्रोक्षितं अभ्युक्षितं च तत् शुचि शुद्धम् उपयोगाहमित्यर्थः । इष्टरूपत्वादिः दृष्टा शुद्धिः । प्रोक्षणाभ्युक्षणजन्या अदृष्टा । समन्त्रकं प्रोक्षणम् । अमन्त्रकं तदेव अभ्युक्षणमिति वदन्ति ।
भावदोषाभावः शुचिभोजनात् । अशुचिभोजनात्तु भावो दुष्यतीति ज्ञापनाय प्रथमं शुचिलक्षणमस्मिन् सूत्रे ब्रवीतीति ज्ञेयम् ।
अथ प्रशुचिपदार्थमाह२५०. अशुचीति शुचिप्रतिषेधः॥६॥
न शुचि अशुचि । अशुचीत्यनेन यन्न शुचि भवति तदुच्यत इत्यर्थः । यदनिष्टरूपादि अप्रोक्षितमनभ्युक्षितं च तत् अशुचीत्युच्यत इति यावत् ॥