________________
षष्ठाध्याये द्वितीयमाह्निकम् अन्योऽप्यर्थ अस्य शब्दस्यास्तीत्याह२५१. अर्थान्तरं च ॥७॥.
न केवलमुक्तरीत्या यत् शुचि तद्भिन्नं अशुचिशब्दाभिधेयं, अपि तु यत् जात्या आश्रयेण निमित्तेन वा दुष्टं तदपि तदभिधेयमित्यर्थः। कलञ्जगृजनादिकं जातिदुष्टम् । अभिशस्त पतितादिद्रव्यमाश्रयदुष्टम् । उच्छिष्टकेशाद्य पहतं निमित्तदुष्टम् । भावदोषानुत्पत्तिकामैः इदं सर्व न भोक्तव्यम् । शुचिभोजनमेव कर्तव्यम्, इति भावः ॥
अथ क्वचित् शुचि भोजनमपि न फला कल्पत इत्याशङ्कय परिहरति
२५२. अयतस्य शुधिभोजनादभ्युदयो न विद्यते । विद्यते वाऽर्थान्तरत्वात् यमस्य ॥८॥
___ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। यस्य एते सन्ति सः यतः । यस्य न सन्ति सः अयतः । अस्य अयतस्य यमरहितस्येत्यर्थः। शुचिभोजनात् शुद्धाहारसेवनात्, अभ्युदयः भावदोषाभावरूपः, विहित कर्मानुष्ठानयोग्य नारूपः, फलविशेषः न विद्यते नास्ति । नोत्पद्यते । कुतः । नियमाभावात् । एते हि यमाः विहितकर्मानुष्ठानसाद्गुण्यापादकाः अत एव तदङ्गभूता नियमा भवन्ति । शुचिना हि शास्त्रचोदितं कर्म कर्तव्यम् । न च हिंसादिकर्तुः यमरहितस्य शुचित्वमस्ति । न चाशुचिना क्रियमाणं भोजनं भुज्यमानस्य शुचित्वेऽपि फलाय कल्पेत । अतोऽभ्युदयो न विद्यत इति पूर्वः पक्षः । अत्र सिद्धान्तमाह-विद्यते वेत्यादिना । कारः पक्षान्तरोपस्थापनद्वारा पूर्वपक्षनिरसनबोधकः । विद्यत एवाभ्युदयः अयतस्यापि शुचिमोजनात् । कुतः । अर्थान्त रत्वाद् यमस्य । यमः भोजनाद्यङ्गभूतनियमेभ्योऽर्थान्तरम् । अहिंसादीनां यमानां योगाङ्गत्वं पुरुषार्थत्वं वा । न तु भोजनादिकार्थत्वम् । तथा विधानाभावात् । स्नातेन भोक्तव्यम्, पञ्च महायज्ञान् कृत्वा भोक्तव्यम्, भगवते निवेदितं भोक्तव्यम्, इत्येवमादीनामेव नियमानां तदङ्गत्वात् ॥
उक्तमेव द्रढवन्नाह२५३. असति चाभावात् ॥ ६॥
शुचिभोजनानङ्गभूते यमेऽसत्यपि अङ्गभूतनियमामावस्याभावात्, अङ्गभूतनियमसत्त्वादित्यर्थः । विद्यत इत्यनुपक्तन अन्वयः। यद्वा अङ्गभूतनियमे असत्येव शुचिभोजनजन्यस्य अभ्युदयस्य अभावात् । न तु अनङ्गभूते यमे असतीत्यर्थः । असति च भावादिति पाठः किमस्तीत्यन्वेष्टव्यम् ॥
अथ धर्माधर्मरूपर; कर्मणः संसारबन्धहेतुत्वं वक्ष्यन् कर्मणि पुरुषप्रवृत्तेहेंतुं वदति