________________
वैशेषिकसूत्रवृत्ती
२५४. सुखाद् रागः॥१०॥
सुखं स्वयमभिलाषविषयः । येन सुखं जायते तस्मिन् सुखसाधने कर्मणि पुरुषस्य रागः इच्छा स्वयमभिलषितात् फलभूतात् सुखात् जायते ॥
२५५. तन्मयत्वाच्च ॥ ११ ॥
तन्मयत्वं रागप्रचुरत्वम् । तस्माच्च रागो भवति । न परमिह जन्मनि क्रियाविशेषजन्यं सुखं ज्ञात्वा तस्यां क्रियायां पुरुषो रज्यति । किन्तु प्राक्तनानन्तजन्मपरम्परानुभवजनितसंस्कारद्वारा रागप्रचुरत्वाच्च तस्मिन् तस्मिन् कर्मणि रागो जायत इत्यर्थः । अत एव हि जातमात्रस्य शिशोः स्तन्यपाने प्रवृत्तिः । आहुश्च “वीत रागजन्मादर्शनात्" इति ॥
२५६. अदृष्टाच्च ॥ १२॥
पुण्यापुण्यरूपात् अदृष्टाच्च कर्मणि रागो जायते । विचित्रफलकारणं हि अदृष्टम । तत् कदाचित् अनभ्यस्तपूर्वेऽपि कर्मणि रागं जनयेत् ॥
२५७. जातिविशेषाच्च ।। १३ ॥
जातिर्जन्म । तद्विशेषाच्च केषाञ्चित् केषुचित् कर्मसु रागो जायते । यथा केषाञ्चित् मधुरभक्षणे । केषाञ्चिल्लवणभक्षणे । यथा च केषाञ्चित् परिवादे । अन्येषां मिथ्यास्तुती, इतरेषां मौने, इति । इत्थं चतुभिः सूत्रः रागकारणान्युक्तानि। तत्र सुखादित्यस्य स्थाने दुःखादिति निवेश्य द्वेषकारणप्रतिपादकतायऽपि इमानि सूत्राणि योजनीयानि ॥
एवं हेतुमुक्त्वा तद्धेतुका पुरुषस्य कर्मसु प्रवृत्तिरित्याह२५८. इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः ।। १४ ।।
रागशब्दार्थविशदीकरणायात्र इच्छाशब्देन तदुक्तिः। इच्छाद्वेषौ पूर्वी कारणे यस्याः सा । धर्मे पुरुषस्य प्रवृत्तिः अधर्म च । प्रवृत्तिः आचरणम् । स्वर्गपश्वादिकामस्य तत्साधने यज्ञकर्मणि रागात् प्रवृत्तिः । शत्रुद्वेषात् तद्वधकर्मणि रागः । तेन च तत्र प्रवृत्तिः । पापे द्वषात् नित्यकर्मणि रागः । सन्ध्यावन्दनादिनित्यकर्मपरित्यागे हि पापं भवेत् । तेन तदनुष्ठानम् । तात्कालिकसुखाभासे रागात् सुरापानादौ प्रवृत्तिः। तात्कालिकदुःखे द्वेषात् अवश्यकर्तव्यकर्मबर्जनम् । एवमिच्छाद्वेषाभ्यां धर्मे अधर्मे च पुरुषस्य प्रवृत्तिः॥
एवं धर्माधर्मरूपं कर्म इच्छाद्वेषहेतुकमित्युक्तम् । अथाद्य एवंरूपकर्महेतुक जननमरणप्रबन्धरूपः संसार इत्याह
२५६, तत् संयोगो विभागः ॥१५॥