SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये द्वितीयमाह्निकम् तदित्यव्ययम् पञ्चम्यन्तार्थकम् । तस्मात् धर्माधर्मात्मककर्मरूपात हेतोः संयोगः जीवात्मनः देहसम्बन्धः। जन्मतत्प्रयुक्तसुखदुःखानुभवश्चेति भावः । विभागः देहवियोगः । मरणमिति यावत् । पुनः संयोगः विभागः। पुनरपि संयोग: विभाग इति परम्पराऽनुवर्ततेति ज्ञापनाय चकाराप्रयोगः। एवं कर्मकृतः संसार इश्युक्त तस्मान्मुक्तिः कथमिति जिज्ञासा स्वरसतो जायते । तत्र पूर्वमेवेदमुक्तमित्याह २६०. आत्मकर्मसु मोक्षो व्याख्यातः ॥ १६ ॥ आत्मकर्मसु "कायकर्मणा आत्मकर्म ब्याख्यातम्" इत्यादिषु पञ्चमाध्यायद्वितीयाह्निकसूत्रेषु त्रिषु मोक्षः व्याख्यातः कथं भवतीति निरूपितः । अत इह पुनर्नोच्यत इति भावः ॥ इति वैशेषिकसूत्रवृत्ती सुगमायां षष्ठाध्याये द्वितीयमाह्निकम् ॥ - -
SR No.010559
Book TitleSugama Vaisheshika Sutra Vrutti
Original Sutra AuthorN/A
AuthorRanganathacharya
PublisherGanganath Jha Kendriya Sanskrit Vidyapitham Prayag
Publication Year1979
Total Pages154
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy