Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 110
________________ षष्ठाध्याये द्वितीयमाह्निकम् अन्योऽप्यर्थ अस्य शब्दस्यास्तीत्याह२५१. अर्थान्तरं च ॥७॥. न केवलमुक्तरीत्या यत् शुचि तद्भिन्नं अशुचिशब्दाभिधेयं, अपि तु यत् जात्या आश्रयेण निमित्तेन वा दुष्टं तदपि तदभिधेयमित्यर्थः। कलञ्जगृजनादिकं जातिदुष्टम् । अभिशस्त पतितादिद्रव्यमाश्रयदुष्टम् । उच्छिष्टकेशाद्य पहतं निमित्तदुष्टम् । भावदोषानुत्पत्तिकामैः इदं सर्व न भोक्तव्यम् । शुचिभोजनमेव कर्तव्यम्, इति भावः ॥ अथ क्वचित् शुचि भोजनमपि न फला कल्पत इत्याशङ्कय परिहरति २५२. अयतस्य शुधिभोजनादभ्युदयो न विद्यते । विद्यते वाऽर्थान्तरत्वात् यमस्य ॥८॥ ___ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। यस्य एते सन्ति सः यतः । यस्य न सन्ति सः अयतः । अस्य अयतस्य यमरहितस्येत्यर्थः। शुचिभोजनात् शुद्धाहारसेवनात्, अभ्युदयः भावदोषाभावरूपः, विहित कर्मानुष्ठानयोग्य नारूपः, फलविशेषः न विद्यते नास्ति । नोत्पद्यते । कुतः । नियमाभावात् । एते हि यमाः विहितकर्मानुष्ठानसाद्गुण्यापादकाः अत एव तदङ्गभूता नियमा भवन्ति । शुचिना हि शास्त्रचोदितं कर्म कर्तव्यम् । न च हिंसादिकर्तुः यमरहितस्य शुचित्वमस्ति । न चाशुचिना क्रियमाणं भोजनं भुज्यमानस्य शुचित्वेऽपि फलाय कल्पेत । अतोऽभ्युदयो न विद्यत इति पूर्वः पक्षः । अत्र सिद्धान्तमाह-विद्यते वेत्यादिना । कारः पक्षान्तरोपस्थापनद्वारा पूर्वपक्षनिरसनबोधकः । विद्यत एवाभ्युदयः अयतस्यापि शुचिमोजनात् । कुतः । अर्थान्त रत्वाद् यमस्य । यमः भोजनाद्यङ्गभूतनियमेभ्योऽर्थान्तरम् । अहिंसादीनां यमानां योगाङ्गत्वं पुरुषार्थत्वं वा । न तु भोजनादिकार्थत्वम् । तथा विधानाभावात् । स्नातेन भोक्तव्यम्, पञ्च महायज्ञान् कृत्वा भोक्तव्यम्, भगवते निवेदितं भोक्तव्यम्, इत्येवमादीनामेव नियमानां तदङ्गत्वात् ॥ उक्तमेव द्रढवन्नाह२५३. असति चाभावात् ॥ ६॥ शुचिभोजनानङ्गभूते यमेऽसत्यपि अङ्गभूतनियमामावस्याभावात्, अङ्गभूतनियमसत्त्वादित्यर्थः । विद्यत इत्यनुपक्तन अन्वयः। यद्वा अङ्गभूतनियमे असत्येव शुचिभोजनजन्यस्य अभ्युदयस्य अभावात् । न तु अनङ्गभूते यमे असतीत्यर्थः । असति च भावादिति पाठः किमस्तीत्यन्वेष्टव्यम् ॥ अथ धर्माधर्मरूपर; कर्मणः संसारबन्धहेतुत्वं वक्ष्यन् कर्मणि पुरुषप्रवृत्तेहेंतुं वदति

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154