Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 108
________________ अथ षष्ठाध्याये द्वितीयमाह्निकम् ॥ वैदिककर्मसामान्यं प्रति वक्तव्यं अस्मिन् आहिके उच्यते । २४५. दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय ॥१॥ वैदिकानि कर्माणि द्विविधानि । दृष्टप्रयोजनानि अदष्टप्रयोजनानि च । दृष्टं प्रत्यक्षावगतं प्रयोजनं नास्ति येषां तान्यदष्टप्रयोजनानि । अध्ययनं अक्षरराशिग्रहणार्थतया दृष्टप्रयोजनम् । नित्याग्निहोत्रादिकं अदृष्टप्रयोजनकम् । अदृष्टप्रयोजनानां कर्मणां वेदोपदिष्टानां तत एव हेतोः निष्प्रयोजन त्वं न मन्तव्यम् । प्रमाणभूतवेदोपदिष्टत्वात् तेषां दृष्टप्रयोजनविरहेपि अदृष्टं किञ्चित् प्रयोजनमस्तीति प्रत्येतव्यम् । किं तत् अदृष्टं प्रयोजनमिति चेत् यत् तानि अभ्युदयाय भवन्ति तत्प्रयोजनम् । अभ्युदयः कालान्तरे इह वा परत्र वा अनुभाव्यं सुखम् । दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमुच्यते । तानि अभ्युदयाय भवन ति सूत्रयोजना । प्रयोजनं प्रयोगः । अनुष्ठानमिति वा। ननु अदृष्टप्रयोजनानामित्येतावद्वक्तव्यम् । किं दृष्टादृष्टेत्य विकेन । उच्यते । दृष्टप्रयोजनेष्वपि पुनः प्रयोजनान्त रापेक्षाऽस्ति । यथा अध्ययनेन किमर्थमक्षरराशिग्रहणम् । पुस्तकपाठेनापि तत्सम्भवात्, इति । तत्राध्ययनेन तद्ग्रहणे अभ्युदयो भवतीति वक्तव्यम् । तदर्थ दृष्टेति ।। अदृष्टप्रयोजनानि कानिचित् कर्माणि काश्चन नियमांश्च दर्शयति २४६. अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानप्रोक्षणदिङनक्षत्रमन्त्रकालनियमाश्चादष्टाय ॥२॥ अभिषेचनं स्नानम् । अस्य मलापकर्षणार्थत्वेऽपि शास्त्रोक्तरीत्या करणं अदृष्टाय प्रयोजनाय । उपवासः शास्त्रचोदितं अनशनम् । ब्रह्मचर्य उपनीतस्य तदर्थविहितव्रतपरिपालनम् । गुरुकुलवासः तत्र वसना त्रियमाणा गुरुशुश्रूषा । नैष्ठिकब्रह्मचर्य वा । वानप्रस्थं कुटुम्ब मरं पुढेष्वर्पयित्वा वनमागत्य वसतां तदहधर्मपरिपालनम् । यज्ञाः दर्शपूर्णमासज्योतिष्टोमादयः देवेभ्यो द्रव्यत्यागरूपाः । दानं मनुष्येभ्यो द्रव्यत्यागः । प्रोक्षणं जलबिन्दुभिः संस्कारः। एतानि अदृष्टप्रयोजनानि ।। शरीरसंस्कारः स्नानं प्रथममुक्तम् । ततो भोजनप्रसक्त्या तन्निवृत्तिरूप उपवासः । अथ आश्रमेषु प्रथमं ब्रह्मचर्य तत्सम्बन्धी गुरुकुलवासश्च । गहादन्यत्र वाससाम्यात् ततः परं वानप्रस्थम् । अथ गृहस्थकर्माणि यज्ञादीनीति निर्देशनमः । यज्ञदाने

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154