Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 94
________________ ७५ पञ्चमाध्याये प्रयममाह्निम् गुरुत्वात् कथं पतनमेव, न क्रियान्तरमित्यत्राह१६१. नोदनविशेषाभावानोव न तिर्यग्यमनम् ॥ ८॥ गुरुत्वं पतनमात्रे हेतुः । उद्गमने वा तिर्यग्गमने वा तदनुरूपं नोदनमपि कारणम् । एतदभावे सति केवलं पतनमिति । १९२. प्रयत्नविशेषान्नोदनविशेषः ॥६॥ नोदनविशेषस्य कारणमत्रोच्यते । वस्त्वन्तरसमवेत क्रियाहेतुभूतसंयोगसमानाधिकरणं कर्म नोदनम् । ऊर्ध्वगमनप्रयोजकत्वं तिर्यग्गमनप्रयोजकत्वं वा तस्य विशेषः । अयं प्रयत्नविशेषाद् भवति । लध्वं नुग्दामीतीच्छाजनितः प्रयलःऊर्ध्वनोदनस्य कारणम् । ततो विलक्षणः तिर्यनुदामीतीच्छाजनितः प्रयत्नः तिर्यङ् नोदनस्य कारणम् । १९३. नोइनविशेषादुइसनविशेषः ।। १० ॥ नोदनविशेषस्य कार्यमत्रोच्यते । ऊर्ध्वनोदनरूपो यो नोदनविशेषः तस्मात् कारणात् नुद्यमानस्य वस्तुनः स्वोदसनं स्वोत्क्षेपणं नाम क्रियाविशेषो भवति । एतेन तिर्यङ्नोदनरूपो यो नोदन विशेषः तेन नुद्यमानस्य वस्तुनः तिर्यगामनरूपः क्रियाविशेषो भवतीत्यप्युक्त वेदितव्यम् । अत्र “नोदनविशेषादुद्गमनम्" इत्येवं सूत्रपाठेन भवितं युक्तम् । १९४, हस्तकर्मणा दारककर्म व्याख्यातम् ॥ ११ ॥ द्विविधं हस्तकर्म पूर्वमुक्त-प्रात्मसंयोगप्रयत्नाभ्यां जायमानं, अभिघातवता मुसलेन संयोगाज्जायमानं चेति । तेन दारककर्म शिशुकर्म व्याख्यातं निरूपितं भवति । स्वात्मसंयोगप्रयत्नाभ्यां तस्य कदाचित् कर्म भवति । यदा स्वयमेव पाणिपादं विक्षिपति। कदाचित् परसंयोगाधीनम् । यदा माता हस्तावालम्ब्य तं सञ्चारयति । शरीरे अन्यत्र च प्रयत्नाधीनं तदनधीनं च कर्म निरूप्य तदिदानी उदाहरणान्तरेण स्मारयामास । अथ यदर्थमिदं स्मारणं तदाह १६५. तथा दग्धस्य विस्फोटने ॥ १२ ॥ अग्निना दग्धस्य वेणोः यद् विस्फोटनं सशब्दं विदलनं तत्र कारणं तथा हस्तदारककर्मवद् द्रष्टव्यम् । सामान्यतः हस्तदारककार्यवदित्युक्तावपि योग्यतावशात् तयोः प्रयत्नानघीनं यत् कर्म तद्वदिति ज्ञेयम् । अभिधातवन्मुसलसंयोगो हस्तकमणीव, क्रियावन्मातृहस्तसंयोगो दारककर्मणीव च वह्विसंयोगो दह्यमानणविदलने कारणम् । प्रत इदं प्रयत्नानधीनं कर्म।

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154