________________
७५
पञ्चमाध्याये प्रयममाह्निम् गुरुत्वात् कथं पतनमेव, न क्रियान्तरमित्यत्राह१६१. नोदनविशेषाभावानोव न तिर्यग्यमनम् ॥ ८॥
गुरुत्वं पतनमात्रे हेतुः । उद्गमने वा तिर्यग्गमने वा तदनुरूपं नोदनमपि कारणम् । एतदभावे सति केवलं पतनमिति ।
१९२. प्रयत्नविशेषान्नोदनविशेषः ॥६॥
नोदनविशेषस्य कारणमत्रोच्यते । वस्त्वन्तरसमवेत क्रियाहेतुभूतसंयोगसमानाधिकरणं कर्म नोदनम् । ऊर्ध्वगमनप्रयोजकत्वं तिर्यग्गमनप्रयोजकत्वं वा तस्य विशेषः । अयं प्रयत्नविशेषाद् भवति । लध्वं नुग्दामीतीच्छाजनितः प्रयलःऊर्ध्वनोदनस्य कारणम् । ततो विलक्षणः तिर्यनुदामीतीच्छाजनितः प्रयत्नः तिर्यङ् नोदनस्य कारणम् ।
१९३. नोइनविशेषादुइसनविशेषः ।। १० ॥
नोदनविशेषस्य कार्यमत्रोच्यते । ऊर्ध्वनोदनरूपो यो नोदनविशेषः तस्मात् कारणात् नुद्यमानस्य वस्तुनः स्वोदसनं स्वोत्क्षेपणं नाम क्रियाविशेषो भवति । एतेन तिर्यङ्नोदनरूपो यो नोदन विशेषः तेन नुद्यमानस्य वस्तुनः तिर्यगामनरूपः क्रियाविशेषो भवतीत्यप्युक्त वेदितव्यम् । अत्र “नोदनविशेषादुद्गमनम्" इत्येवं सूत्रपाठेन भवितं युक्तम् ।
१९४, हस्तकर्मणा दारककर्म व्याख्यातम् ॥ ११ ॥
द्विविधं हस्तकर्म पूर्वमुक्त-प्रात्मसंयोगप्रयत्नाभ्यां जायमानं, अभिघातवता मुसलेन संयोगाज्जायमानं चेति । तेन दारककर्म शिशुकर्म व्याख्यातं निरूपितं भवति । स्वात्मसंयोगप्रयत्नाभ्यां तस्य कदाचित् कर्म भवति । यदा स्वयमेव पाणिपादं विक्षिपति। कदाचित् परसंयोगाधीनम् । यदा माता हस्तावालम्ब्य तं सञ्चारयति ।
शरीरे अन्यत्र च प्रयत्नाधीनं तदनधीनं च कर्म निरूप्य तदिदानी उदाहरणान्तरेण स्मारयामास । अथ यदर्थमिदं स्मारणं तदाह
१६५. तथा दग्धस्य विस्फोटने ॥ १२ ॥
अग्निना दग्धस्य वेणोः यद् विस्फोटनं सशब्दं विदलनं तत्र कारणं तथा हस्तदारककर्मवद् द्रष्टव्यम् । सामान्यतः हस्तदारककार्यवदित्युक्तावपि योग्यतावशात् तयोः प्रयत्नानघीनं यत् कर्म तद्वदिति ज्ञेयम् । अभिधातवन्मुसलसंयोगो हस्तकमणीव, क्रियावन्मातृहस्तसंयोगो दारककर्मणीव च वह्विसंयोगो दह्यमानणविदलने कारणम् । प्रत इदं प्रयत्नानधीनं कर्म।