Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 99
________________ वैशेषिकसूत्रबृतौ १६६. यत्नाभावे प्रसुप्तस्य चलनम् ॥ १३ ॥ तथेत्यनुषज्य तादृशमित्यर्थों वाच्यः। पुरुषप्रयत्नाभावे सति सुषुप्तस्य पुरुषस्य चलनं यद् भवति तद् दावानलदह्यमानवेण विस्फोटनवत् प्रयत्नेतरकारणकं द्रष्टव्यमित्यर्थः । जाग्रहशायां प्रयत्नानवीनं शारीरं कर्म पूर्वमुक्तम् । अथ स्वापावस्थायामुच्यते। आहारपरिणामप्रयुक्ततेजोवायुसंयोगविशेषाधीन मिदं चलनमिति भावः । १६७. तृणे कर्म वायुसंयोगात् ॥ १४ ॥ सर्वथा पुरुषसंयोगरहिते, मार्ग प्ररूढे तृणे यच्चलनं तद् वायुसंयोगादिति असन्दिग्धमेतत् । तद्वदेव प्रसुप्तचलनमपि पुरुषप्रयत्नेतरकिञ्चित्कारणकम् । १९८. मणिामनं सूच्यभिसर्पमित्वदृष्ट कारणकम ॥ १५ ॥ स्तेन निर्धारणार्थ विसृष्टो मणिः यत् स्तेनमभिगच्छति, सूची यत् अयस्कान्तमभिसर्पति, यच्च एतादृशमन्यत् कर्म तत् सर्व अदृष्टकारणकम् । न दृष्टं प्रत्यक्षेरण वानुमानेन वाजवगतं कारणं यस्य तत् । अस्ति कारणम् । तत्तु इदमिति विशिष्य वक्त न शक्यत इति भावः । एतेन दृष्टकारणादृष्टकारणभेदात् कर्म द्विविधा- त्यपि विभागवदिति ज्ञापितम् । १६६. इषावयुगप्रत्संयोगविशेषाः कर्मान्यत्वे हेतुः ॥ १६ ॥ धनुषि सन्धाय मुक्त इषौ यावल्लक्ष्यप्राप्ति एकमेब कर्मेति न मन्तव्यम् । भिन्नभिन्नमने कं कर्म तत्र भवति । कोऽत्र हेतुः । किं तत्र लिङ्गम् । किं प्रमाणमिति यावत् । अयुगपत्संयोगविशेषः । संयोगानां विशेषाः भिन्नभिन्ना व्यक्तयः। ते च अयुगपत् न एककालमाविनः अपितु क्रमभाविनः । प्रथमं दिग्विशेषावच्छिन्नाकाशसंयोगो जायते । तेन तज्जनकं कर्म नश्यति । अनन्तरं अन्यः संयोगोऽपरदिग्विशेषावच्छिन्नाकाशेन । तेन तज्जनकं कर्म नश्यति । एवमुत्तरोत्तरसंयोगनाश्यत्वात् तत्तज्जनकस्य कर्मणः न एक कर्म प्रान्तमनुवर्तते । अपितु यावन्तः संयोगाः तज्जनकानि तन्नाश्यानि च कर्माणि तावन्ति भवन्तीत्यर्थः। २००. नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च ।। १७ ।।। यदि प्रथममुत्पन्नं कर्म तज्जन्यसंयोगानश्यति तहि अनन्तरं कुतो जायत इत्यत्राह । नोदनादाद्यमिषोः कति ज्ञातमेतत् । तेन प्राद्यन कर्मणा उत्तरदेशसंयोगवत वेगाख्यः संस्कारोऽपि कार्यते उत्पाद्यते । तस्माच्च संस्कारात् उत्तरं द्वितीयं कर्म जायते । तथा तेनैव प्रकारेण उत्तरमुन्नरं च सर्व कर्म जायत इति कर्मानेकत्वमुपपन्नम ।

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154