Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 82
________________ चतुर्थाध्याये प्रथममाह्निकम् तदुच्यते तस्य कार्य लिङ्गमिति । यदेवं नित्यं वस्तु सिध्यति तस्य परमाणुरिति व्यवहारः॥ कार्यात्कारणानुमानं साधु । कारणात् कार्यानुमानं तु असाधु, इति पूर्वोक्तं स्मारयन्नाह १६१. कारणभावात, कार्यभावः ॥ ३ ॥ कारणस्य सत्त्वे हि कार्यस्य सत्ता। न तु तस्य असत्वे । अतो व्याप्तिसत्त्वात् सद्धेतुरयमिति भावः । ननु कार्यात्कारणं सिद्धयतु। तन्नित्यमिति कथं सिद्धये दिति चेन्न । परिमाणविशेषविशिष्टं हि कार्य तदनुगुणमेव कारणमनुमापयति । नित्यमेव च चरमं कारणं तदनुगुणम् ॥ एवं परमाणुरूपं नित्यं कारणं प्रसाध्य तस्य ये अनित्यत्वमाहुः तान् निरस्यति१६२. अनित्यमिति च विशेषतः प्रतिषेधभावः ॥ ४ ॥ परमाणुरूपं कारण द्रव्यं अनित्यं, रूपादिमत्त्वात्, घटादिवत् इति यः नित्यत्वप्रतिषेधः क्रियते सः विशेषतः प्रतिषेधः। कारणद्रव्यस्यानुमीयमानस्य अनित्यत्वरूपेण विशेषेण प्रतिषेधः । न तु स्वरूपेण । परमाणुमभ्युपेत्य तस्य नित्यत्वं प्रतिषिद्धयत इति यावत् । अयं प्रतिषेधः तदा भवेत् यदि नित्यत्वानित्यत्वविशेषाववारणं विना परमाणुस्वरूपं अस्माभिः साधितं भवेत् । निरवयवं अतएव नित्यं किञ्चित कारणमस्ति । स एव परमाणुरिति ह्यस्माभिः साध्यते । तत्र धमिग्राहकप्रमाणेन नित्यत्वेनैव तत्सिद्धौ तस्यानित्यत्वानुमानं कालात्ययापदिष्टं भवतीति भावः । बाधितमिति यावत् । “विशेषतः प्रतिषेधाभावः' इति पाठे "अनित्यमिति विशेषतो यः प्रतिषेधः तस्याभावः” उक्तरीत्याऽनवकाश एवेत्यर्थः। न परं साधकप्रमाणसत्त्वात्, बाधक प्रमाणाभावाच्च नित्यपरमाणु सिद्धिरिति चकारार्थः । १६३. अविद्या च ॥५॥ अथोच्यते परमाणुरेव नाङ्गीक्रियते, नतरां तस्य नित्यत्वमिति, तत्र ब्रूमः । तथा सति अविद्या अनुमित्यात्मकविद्यापाः ज्ञानस्याभावः । पक्षाभावेन हेतोराश्रया

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154