________________
चतुर्थाध्याये प्रथममाह्निकम् तदुच्यते तस्य कार्य लिङ्गमिति । यदेवं नित्यं वस्तु सिध्यति तस्य परमाणुरिति व्यवहारः॥
कार्यात्कारणानुमानं साधु । कारणात् कार्यानुमानं तु असाधु, इति पूर्वोक्तं स्मारयन्नाह
१६१. कारणभावात, कार्यभावः ॥ ३ ॥
कारणस्य सत्त्वे हि कार्यस्य सत्ता। न तु तस्य असत्वे । अतो व्याप्तिसत्त्वात् सद्धेतुरयमिति भावः । ननु कार्यात्कारणं सिद्धयतु। तन्नित्यमिति कथं सिद्धये दिति चेन्न । परिमाणविशेषविशिष्टं हि कार्य तदनुगुणमेव कारणमनुमापयति । नित्यमेव च चरमं कारणं तदनुगुणम् ॥
एवं परमाणुरूपं नित्यं कारणं प्रसाध्य तस्य ये अनित्यत्वमाहुः तान् निरस्यति१६२. अनित्यमिति च विशेषतः प्रतिषेधभावः ॥ ४ ॥
परमाणुरूपं कारण द्रव्यं अनित्यं, रूपादिमत्त्वात्, घटादिवत् इति यः नित्यत्वप्रतिषेधः क्रियते सः विशेषतः प्रतिषेधः। कारणद्रव्यस्यानुमीयमानस्य अनित्यत्वरूपेण विशेषेण प्रतिषेधः । न तु स्वरूपेण । परमाणुमभ्युपेत्य तस्य नित्यत्वं प्रतिषिद्धयत इति यावत् । अयं प्रतिषेधः तदा भवेत् यदि नित्यत्वानित्यत्वविशेषाववारणं विना परमाणुस्वरूपं अस्माभिः साधितं भवेत् । निरवयवं अतएव नित्यं किञ्चित कारणमस्ति । स एव परमाणुरिति ह्यस्माभिः साध्यते । तत्र धमिग्राहकप्रमाणेन नित्यत्वेनैव तत्सिद्धौ तस्यानित्यत्वानुमानं कालात्ययापदिष्टं भवतीति भावः । बाधितमिति यावत् । “विशेषतः प्रतिषेधाभावः' इति पाठे "अनित्यमिति विशेषतो यः प्रतिषेधः तस्याभावः” उक्तरीत्याऽनवकाश एवेत्यर्थः। न परं साधकप्रमाणसत्त्वात्, बाधक प्रमाणाभावाच्च नित्यपरमाणु सिद्धिरिति चकारार्थः ।
१६३. अविद्या च ॥५॥
अथोच्यते परमाणुरेव नाङ्गीक्रियते, नतरां तस्य नित्यत्वमिति, तत्र ब्रूमः । तथा सति अविद्या अनुमित्यात्मकविद्यापाः ज्ञानस्याभावः । पक्षाभावेन हेतोराश्रया