________________
तृतीयाध्याये द्वितीयमाह्निकम्
५६
१५३. सन्दिग्धस्तूपचारः ॥ १६ ॥
तुकारः आक्षेपद्योतकः । अहंशब्दस्य प्रात्मवाचकत्वेन निश्चितत्वात् तत्सामानाधिकरण्येन प्रयुक्तो देवदत्तादिशब्दोऽपि आत्मवाचीति सिद्धयति । तेन देवदत्तो गच्छतीत्यादिषु व्यवहारेषु देवदत्तादिशब्दः शरीरे औपचारिक इत्युक्तम् । इदानीं तु अहंशब्दोऽपि शरीरपरः प्रयुज्यत इत्युच्यते । अत्र ब्रूमः । अहंशब्दः शरीरपरः मुख्य एवास्तु । एवं देवदत्त। दिशन्दोऽपि । किमुपचाराङ्गीकारेण । मुख्यत्व संभवे अमुख्यत्वाङ्गीकारायोगात् । अतोऽत्र भवता उच्यमान उपचारः संदिग्धः प्रङ्गीका - रानर्हः ॥
पूर्वसूत्र देवदत्तो गच्छतीत्युपचारात् इत्ययं भागः अनपेक्षितः । प्रभिमानात् तावदिति हेतुकथनात् उपचारो न तत्रोक्त इति, तेन 'संदिग्धस्तूपचार:' इत्यनेन सूत्रेणोपचारखण्डनमन्यथा नोपपद्यते इति च मन्यमानयजित इति मन्यामहे ||
2
इममाक्षेपं परिहरति
१५४. न तु शरीरविशेषाद यज्ञदत्तविष्णु मित्रयोर्ज्ञानं विषयः ।। १७ ।। तुकारः पूर्वपक्षं व्यावर्तयति । समागतौ यज्ञ दत्तविष्णुमित्रो अन्योन्यस्य शरीरविशेषं पश्यतः । परं तु अस्येदानीमिदं ज्ञानं वर्तत इति परस्परस्य ज्ञानं परस्परस्य नैव विषयो भवति । नैव ज्ञातं भवतीत्यर्थः । यदि शरीरगुणः स्यात् ज्ञानं तर्हि तद् ज्ञातं स्यात् । न तु ज्ञानं भवति । तस्मात् शरीराद्यतिरिक्तस्य कस्यचित् गुण इति दुरपह्नवमिदम् । देवदत्तोऽहं जानामीति असन्दिग्धाबाधित प्रतीतिबलात् सः अहमर्थं आत्मेति, देवदत्तादिशब्दः तस्यैव वाचक इति च निश्चीयते । एवं यज्ञदत्तो गच्छति, अहं गच्छामि इति प्रतीतिव्यवहारौ औपचारिकाविति उपपाद्यो । यदि तु पूर्वपक्षरीत्या अहंशब्द: देवदत्तादिशब्दश्च शरीरस्य मुख्यवाचको तहि अहं जानामि देवदत्तो जानातीत्यत्र अहंशब्ददेवदत्तशब्दयोरर्थः कः ? न तावच्छरीरम् । तस्य ज्ञानाश्रयत्वासंभवात् । नाप्यात्मा । शरीरस्याहमर्थत्वे तदतिरिक्तस्याहमर्थस्याप्रसिद्धेः । असिद्धस्य च औपचारिकतयाऽपि वाच्यत्वायोगात् । तस्मात् इमो शब्दो आत्मनि मुख्यौ । शरीरे औपचारिकाविति इयमेव व्यवस्था युक्त ेति न सन्दिग्धता
१४