________________
वैशेषिकसूत्रवृत्ती उपचारस्येति ।
प्रात्मनोऽनागमिकत्वप्रकरणमिदमुपसंहरति :१५५. अहमिति मुख्ययोग्याभ्यां शब्दवद् व्यतिरेकाव्यभिचाराद्
विशेषसिद्ध गमिकः ॥ १८ ॥ आत्मा नागमिकः । प्रकारान्तरेणंव विशेषस्य अहन्त्वरूपस्य आत्मत्वस्य सिद्धेः अवधारणात् । किं तत् प्रकारान्तरम् ? अहमिति प्रत्ययस्य व्यतिरेकाव्यभिचारः इतरेभ्यः सर्वेभ्यः व्यावृत्तत्वनियमः । नियमेन व्यावृत्तिरिति यावत् । अहनिति प्रत्ययः प्रत्यक्षात्मकः । लिङ्गविशेषाजन्यत्वात् । साक्षात्काररूपत्वात् । स चायं प्रत्ययः सर्वेभ्यो विषयान्तरेभ्यो व्यावृत्तः आत्मैकविषयः। कस्मात् । मुख्ययोग्याभ्यां अन्वयव्यतिरेकाभ्याम् । मुख्यो साक्षादुपलभ्यमानौ । योग्यो सन्देहविपर्ययरहितौ । आत्मनि भवतीत्यन्वयः । अन्यस्मिन् यस्मिन् कस्मिन्नपि न भवतीति व्यतिरेकः । शब्दवदिति दृष्टान्तः ! "अहमिति शब्दस्य व्यतिरेकान्नागमिक" इति पूर्वमुक्तम् । तद्वत् अहमिति प्रत्ययस्यापि व्यतिरेकाद् विशेषसिद्धन गमिक आत्मा ।
अथात्मनः सङ्ख्यामाह१५६. सुखदाखज्ञाननिष्पत्त्य विशेषादैकात्म्यम ॥ १६ ॥
ऐकात्म्यं प्रात्मनः एकत्वम् । तदभ्युपगन्तव्म् । कुतः ? सुखाद्युत्पत्तिविषये अविशेषात् । शब्दस्य सर्वत्रोपलम्भादाकाश एक इत्युक्तम् । परापरव्यवहारस्य सार्वत्रि कत्वात् तत्कारणभूतः कालः एक इत्युक्तम् । तथा सुखदुःखादेः सर्वेषु शरीरेषूपलम्मात् तदाश्रय आत्मापि एको भवितुमर्हतीति पूर्वः पक्षः॥
सिद्धान्तमाह१५७. नानात्मानो व्यवस्थातः ॥ २० ॥
आत्मानः नाना बहवः। कुतः ? सुखदुःखव्यवस्थानात् । यदा एकस्मिन् शरीरे सुखं वा दुःखं वाऽनुभूयते तदा तत् सर्वस्मिन् शरीरे नानुभूयते । यद्येक एवात्म तहि सर्वत्र तदनुभवेन भाव्यम् । न परं एवं एकस्य सर्वत्रानुभवाभावः । अपि तु विपरीतानुभवोऽप्यस्ति । यदा एकः सुखी तदाऽन्यो दुःखी भवति । सुखदुःखे च भिन्नमिन्ने तारतम्यवती च भवतः । एवं व्यवस्थादर्शनात् प्रतिशरीरं, विभिन्न एक