SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये द्वितीयमाह्निकम् प्रास्मेति अनन्ता आत्मानः ॥ १५८. शास्त्रसामर्थ्याच्च ॥ २१ ॥ आत्मनो बहुत्वं सिद्धयति । शास्त्राणि वेदाः स्मृतयश्च । तेषां सामर्थ्य तात्त्विकार्थबोधकत्वशक्तिः । "नित्यो नित्यानां चेतनश्चतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां शान्तिः शाश्वती नेतरेषाम् ।" "वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥” इत्यनयोः श्रुतिस्मृत्योः आत्मनां बहुत्वं कण्ठोक्तम् । तदस्तु । तत्तद्विधिनिषेधपराणि सर्वाणि प्रमाणवचनानि साघुकर्मकारी समीची गतिमाप्नोति, अमाधुकर्मकारी दुर्गति गच्छतीति बोधयन्ति आत्मनानात्वं सुस्पष्टं ज्ञापयन्तीति, "शास्त्राच्च" इत्येवं असूत्रयित्वा "शास्त्रसामर्थ्याच्च” इति सूत्रयतो भावः ॥ इति कणादसूत्रवृत्ती सुगमायां तृतीयाध्याये द्वितीयमाह्निकम् ॥
SR No.010559
Book TitleSugama Vaisheshika Sutra Vrutti
Original Sutra AuthorN/A
AuthorRanganathacharya
PublisherGanganath Jha Kendriya Sanskrit Vidyapitham Prayag
Publication Year1979
Total Pages154
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy