Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 33
________________ प्रथमाध्याये प्रथमाह्निकम (३१) संयोगविभागाश्च कर्मणाम् । द्रव्याणां गुणानां च समानं कार्यमुक्तम् । अद्य कर्मणां समान कार्यमाह । कारणानेकत्वप्रकरणात् कर्मणामित्यनेन संयुज्यमानयोवियुज्यमानयोर्वा उभयोः कर्माणि गृह्यन्ते । तेषां संयोगा विभागाश्च समानकार्यभूताः ॥३१॥ (३२) कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम, । ननु “संयोगविभागाश्च कर्मणा"मिति पूर्वसूत्रे कर्मणां संयोगविभागरूयगुणमात्रं समानं कार्यमुक्तम् । द्रव्याणां यथा द्रव्यं गुणश्चेति द्वपं गुणानां च यथा द्रव्यं गुणः कर्म चेति त्रयं समान कार्यमुक्तं तथा कर्मणां कुतो नोच्यते इति शङ्कापरिहाराय पूर्वोक्तं स्मारयति-कारणसामान्य इति । ___कारणसामान्ये । कारणं सामान्य मिति यत्रोक्तं तत्प्रकरणमिह कारणसामान्यपदेनाभिधीयते । तत्र "न द्रव्याणां कर्म” इति कर्म द्रव्यकारणं न भवतीत्युक्तम् । "गुणवैधान्न कर्मणां कर्म" इति कर्मकारणं न भवतीति च । इत्थं द्रव्यकर्मणी प्रति कर्म न कारणमित्युक्तत्वात् द्रव्यकर्मणी कर्मणः कार्ये न भवत इत्यप्युक्तप्रायम् । तथा च कर्मणां द्रव्यं कर्म वा यस्मान्न कार्य भवति तस्मात् कर्मणः द्रव्यं कर्म वा किञ्चित् समानं कार्य भवतीति वचनस्य नास्त्यवसरः । अतो नोच्यत इति भावः ।। अस्मिन् आह्निके द्वात्रिंशत् सूत्राणि । तत्र प्राद्यानि त्रीणि औपोद्धातिकं धर्मविषयं एकं प्रकरणं भवन्ति । चतुर्थमेकं शास्त्रस्य विषयप्रयोजननिर्देशपरं द्वितीयं प्रकरणम् । पञ्चमषष्ठसप्तमानि आद्यत्रिपदार्थीविभजनपरं तृतीयम् । अष्टमात्प्रभृति पञ्चविंशतिः सूत्राणि द्रव्यगुणकर्मणां साधर्म्यवैधर्म्यनिरूपणाय प्रवृत्तमेकं महाप्रकरणम् । तत्र अष्टमं त्रयाणां साधर्म्यमाह । नवमदशमे द्रव्यगुणयोः साधर्म्यमाहतुः । इदमनयोः साधर्म्य कर्मापेक्षया अनयोर्वधर्म्यमपि भवति । एकादशद्वादशसूत्रे अवयविनो द्रव्यान्तरत्वं समर्थयती पूर्वसूत्रयोः शेषतां गच्छतः । त्रयोदशं सूत्रं कर्मणः सजातीयानारम्भकत्वेन द्रव्यगुणापेक्षया वैधयं ब्रूते । एवामियं पट्सूत्री त्रयाणां पदार्थानां नाश्यनाशकभावेतरधर्मः साधर्म्यवैधर्म्यकथनतत्परा एकमवान्तरप्रकरणम् ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154