Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 31
________________ प्रथमाध्याये प्रथमाह्निकम् (२४) गुणवैधान्न कर्मणां कम । कर्मणां कर्म समानं कारणं न भवति । कस्मात् । गुणवैधात् । स्यन्दनकारणं द्रवत्वरूपो गुणः । पतनकारणं गुरुत्वगुणः । चेष्टाकारणं प्रयत्नगुणः । अत्र सर्वत्र तत्तत्क्रियोत्पत्तेः पूर्व स स गुणः वर्तते । तत्तत्कार्यनियतपूर्ववृत्तित्वात् कारणं भवति। न त्वेवं कर्मोत्पत्तेः पूर्वं किमपि कर्म वर्तते । उत्तरदेशसंयोगे उत्पन्ने तज्जनकं कर्म नश्यति । नष्टं अविद्यमानं तत् कथं अन्यत्कर्म जनयेत् । अतो नियतपूर्ववृत्तिभ्यो गुणेभ्यः नियतपूर्वनाशतया विलक्षणं कर्म कर्मणां कारणं न भवति । इदमभिप्रेत्यैव पूर्वमुक्त "कर्म कर्मसाध्यं न विद्यते" इति । ननु संयोगजसंयोगवत् कर्मजं कर्म कुतो न भवतीति चेन्न, हस्तपुस्तकसंयोगे सति पुस्तकसंयुक्तः कायः इत्यपि व्यवहारस्य सत्त्वात् तस्य मुख्यत्वोपपत्तये संयोगजसंयोगोऽङ्गीक्रियते । हस्तचलने सति कायश्चलति इति व्यवहारस्य मुख्यत्वं न शक्यमुपपादयितुम् । हस्तसंयोगादतिरिक्तस्य कायसंयोगस्येव हस्तचलनातिरिक्तस्य कायचलनस्य दुर्वचत्वात् । चलनं हि क्रिया जाता विभाग, पूर्वसंयोगनाशं, संयोगान्तरं च अवश्यं जनयेत् । अन्यथा क्रियात्वस्यैवासंभवात् । न च हस्तचलनजनितविभागाद्यपेक्षया व्यतिरिक्त कायचलनजनितं विभागादिकं किञ्चित्सुवचम् । अतो न संयोगजसंयोगवत् कर्मजं कर्म शक्यमङ्गीकर्तुम् । कायश्चलतीति प्रतीतिः अवयवे अवयविशब्दप्रयोग इति औपचारिक्येव ॥२४॥ २५. द्रव्याणां द्रव्यं कार्य सामान्यम् । द्रव्यगुणकर्मणां कारणभावेन साधारणत्वतदभावौ पञ्चभिः सूत्ररुक्तौ । अथ इतः प्रभृति तेषामेव कार्यभावेन साधारणत्वमाह । कार्यभावोऽपि अनेककारणनिरूपित इह अभिप्रेतः। कपालद्वयस्य घटरूपमेकं कार्य समानम् । तन्तूनां बहूनामेकः पटः । तदत्र अनेकद्रव्य विषये द्रव्यरूपमेकं कार्य समानमित्युक्तम् ॥२५॥ २६. द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च ।। ___ अनेकद्रव्याणां एते गुणाः कार्यभावेन समानाः । द्वित्वप्रभृतयः—एकत्व व्यतिरिक्ताः । अनेकवटसत्त्व एव हि द्वित्वादिसंख्या जायन्ते । पृथक्त्वं एकपृथक्त्वप्रभृति

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154