Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 74
________________ तृतीयाध्याये द्वितीयमाह्निकम् १४१. प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकारा सुख दुःखप्रयत्नाश्चात्मलिङ्गानि ॥ ४ ॥ प्राणः प्राणनं, प्राणवायोर्बहिः निस्सारणम् । अपानः अपाननं, प्राणवायोरन्तराकर्षणम् । निमेषोन्मेषौ चक्षुषो निमीलनोन्मीलने । जीवनं शरीरधारणम् । मनोगतिः मनसः तेन तेनेन्द्रियेण सन्निकर्षाय सञ्चारः । इन्द्रियान्तरविकारः अनुभूतसुगन्धिरसाढ्यफलदर्शनेन आस्ये दन्तोदकसंप्लवः । एते सुखदुःखादयश्च पात्मनो लिङ्गानि । आत्मनः सत्त्वे प्रमाणानि इत्यर्थः । आत्मनः इमानि काणि । आत्मानं विना नैतानि भवेयुः। मृतशरीरे एषामभावात् । अतः ज्ञानवदेतान्यपि तल्लिङ्गानीति भावः । भोक्तुरात्मनः करणत्वेन शेषत्वात् निर्देशे पश्चात्तनस्यापि मनसः मनोगतेरप्यात्मलिङ्गत्वकथनसौकर्याय पूर्व निरूपणमिति स्पष्टम् । शरीरे यद्यद्भवति तत्सर्वमात्मायत्तमिति तत्प्रावान्यख्यापनाय इयतामात्मलिङ्गत्वोक्तिः । अत्र प्राणापानयोरात्मलिङ्गत्वाभिधानात् आत्मन. प्राणव्यतिरिक्तत्वं, निमेषोन्मेषोक्तया चक्षुरिद्रियात्, मनोगत्युक्तया मनसः, इन्द्रियान्तरविकारोक्तया सर्वेन्द्रियान्तरेभ्यः, सुखाद्युक्तया तेभ्यश्च व्यतिरिक्तत्वं ज्ञापितम् । एवमात्मा साधितः । अथ तद्गतान् विशेषानाह :१४२. तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥ ५ ॥ तस्य प्रात्मनः द्रव्यत्वं ज्ञानादिगुणाश्रयत्वात् वायुवत् सिद्धम् । अद्रव्यत्वान्निस्यत्वं वायुपरमाणुवत् ॥ वायाविव आत्मनि आगमिकत्वपूर्वपक्षं कुर्वन् प्रथमं तत्र दृष्टं लिङ्ग नास्तीत्याहः१४३. यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्ग न विद्यते ॥ ६ ॥ अयं यज्ञदत्त इति तच्छरीरप्रत्ययजनके सन्निकर्ष सति तच्छरीरिण पात्मना प्रत्यक्षाभावात् तस्मिन् तल्लिङ्गस्य ज्ञानादेः गवि गोत्वादिलिङ्गस्य विषाणित्वककुद्मत्वादेरिव दृष्टत्वाभावात् प्रात्मनि दृष्टं लिङ्ग न विद्यत इत्यर्थ :॥

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154