Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 73
________________ अथ तृतीयाध्याये द्वितीयमाह्निकम् मनोनिरूपणपूर्वकं आत्मसंबन्धिनो बहून् विषयान् प्रतिपादयितुं इदमाह्निकं प्रवर्तते । १३८. प्रात्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ॥ १। आत्मेन्द्रियार्थसन्निकर्षे ज्ञानं निष्पद्यत इत्युक्तम् । तत्र आत्मसंयुक्तस्य चक्षुषः घटेन सन्निकर्षे सति कदाचित् घटज्ञानं जायते । कदाचिन्न जायते च । तत् कस्मादिति चेत् तत्र एवं वक्तव्यम् । चक्षुर्व्यतिरिक्तमपि किञ्चिदिन्द्रियमस्ति । आत्मा यदा तेन संयुज्यते, तच्च चक्षुषा, चक्षुश्च घटेन, तदा घटज्ञानस्य भावः उत्पत्तिः । यदा तु आत्मसंयुक्त तदतिरिक्तमिन्द्रियं चक्षुषा न संयुज्यते तदा चक्षुर्घटसन्निकर्षे सत्यपि घटज्ञानस्यानुत्यत्तिः अभावः इति । यत् तदतिरिक्तमिन्द्रियं तन्मन इति आत्मादिसन्निकर्षे सति ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ॥ १३६. तस्य द्रव्यत्वनित्यवे वायुना ध्याख्याते ॥ २ ॥ तस्य उक्तयुक्तया सिद्धस्य मनसः क्रियावत्त्वात् संयोगसंख्यापरिमाणादिगुणवत्त्वाच्च वायुवत् द्रव्यत्वं सिद्धयति । अद्रव्यत्वात् वायुपरमाणुवन्नित्यत्वम् ॥ अथ सङ्ख्योच्यते - १४०. प्रयत्नायौगपद्यात् ज्ञानायोगपद्याच्चैकम् ॥ ३ ॥ एकमेव मनः एकस्यात्मनः। जानाति इच्छति यतत इति ज्ञानेच्छाप्रयत्ना आत्मनि मनःसंयोगाज्जायन्ते । तत्र यदि युगपद् अनेकं ज्ञानं वा इच्छा वा प्रयत्नो वा उत्पद्यत तर्हि तत्कारणतया अनेकं मनः कल्प्येत । न च तथाऽस्ति । एकस्मिन् काले एकमेव ज्ञानं, तन्मूलेच्छा, प्रयत्नश्च । अतोऽनेकमनःकल्पने हेत्वभावात् एकमेव मन इति । यद्यपि ज्ञानायौगपद्यादित्येकेनवालं हेतुना तथाऽपि ज्ञानप्रयोज्यस्य प्रयत्नस्यैकत्वात् प्रयोजकं ज्ञानमप्येकमेव, न तु कदाचिदप्यनेकमिति तदेकत्वद्रढिम्ने प्रयत्नायौगपद्यमपि हेतूकृतमिति ज्ञयम् ॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154